सामर्थ्यं च सदा मह्यं भवन्तं वोढुमीश्वरम् सर्वज्ञत्वं च वरद सर्वगत्वं च शङ्कर
तयोः श्रुत्वा महादेवो विज्ञप्तिं परमेश्वरः सारथ्ये वाहनत्वे च कल्पयामास वै भवः
दत्त्वा तस्मै ब्रह्मणे विष्णवे च दग्ध्वा दैत्यान्देवदेवो महात्मा सार्धं देव्या नन्दिना भूतसंघैर् अन्तर्धानं कारयामास शर्वः
ततस्तदा महेश्वरे गते रणाद्गणैः सह सुरेश्वराः सुविस्मिता भवं प्रणम्य पार्वतीम्
ययुश् च दुःखवर्जिताः स्ववाहनैर्दिवं ततः सुरेश्वरा मुनीश्वरा गणेश्वराश् च भास्कराः
त्रिपुरारेरिमं पुण्यं निर्मितं ब्रह्मणा पुरा यः पठेच्छ्राद्धकाले वा दैवे कर्मणि च द्विजाः
श्रावयेद्वा द्विजान् भक्त्या ब्रह्मलोकं स गच्छति मानसैर्वाचिकैः पापैस् तथा वै कायिकैः पुनः
स्थूलैः सूक्ष्मैः सुसूक्ष्मैश् च महापातकसंभवैः पातकैश् च द्विजश्रेष्ठा उपपातकसंभवैः
पापैश् च मुच्यते जन्तुः श्रुत्वाध्यायमिमं शुभम् शत्रवो नाशमायान्ति संग्रामे विजयीभवेत्
सर्वरोगैर्न बाध्येत आपदो न स्पृशन्ति तम् धनमायुर्यशो विद्यां प्रभावमतुलं लभेत्
गते महेश्वरे देवे दग्ध्वा च त्रिपुरं क्षणात् सदस्याह सुरेन्द्राणां भगवान्पद्मसंभवः
संत्यज्य देवदेवेशं लिङ्गमूर्तिमहेश्वरम् तारपौत्रो महातेजास् तारकस्य सुतो बली
तारकाक्षो ऽपि दितिजः कमलाक्षश् च वीर्यवान् विद्युन्माली च दैत्येशः अन्ये चापि सबान्धवाः
त्यक्त्वा देवं महादेवं मायया च हरेः प्रभोः सर्वे विनष्टाः प्रध्वस्ताः स्वपुरैः पुरसंभवैः
तस्मात्सदा पूजनीयो लिङ्गमूर्तिः सदाशिवः यावत्पूजा सुरेशानां तावदेव स्थितिर्यतः
पूजनीयः शिवो नित्यं श्रद्धया देवपुङ्गवैः सर्वलिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम्
तस्मात् सम्पूजयेल्लिङ्गं य इच्छेत्सिद्धिमात्मनः सर्वे लिङ्गार्चनादेव देवा दैत्याश् च दानवाः
यक्षा विद्याधराः सिद्धा राक्षसाः पिशिताशनाः पितरो मुनयश्चापि पिशाचाः किन्नरादयः
अर्चयित्वा लिङ्गमूर्ति संसिद्धा नात्र संशयः तस्माल्लिङ्गं यजेन्नित्यं येन केनापि वा सुराः
पशवश् च वयं तस्य देवदेवस्य धीमतः पशुत्वं च परित्यज्य कृत्वा पाशुपतं ततः
पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः विशोध्य चैव भूतानि पञ्चभिः प्रणवैः समम्
प्राणायामैः समायुक्तैः पञ्चभिः सुरपुङ्गवाः चतुर्भिः प्रणवैश्चैव प्राणायामपरायणैः
त्रिभिश् च प्रणवैर्देवाः प्राणायामैस्तथाविधैः द्विधा न्यस्य तथौंकारं प्राणायामपरायणः
ततश्चौंकारम् उच्चार्य प्राणापानौ नियम्य च ज्ञानामृतेन सर्वाङ्गान्य् आपूर्य प्रणवेन च
गुणत्रयं चतुर्धाख्यम् अहङ्कारं च सुव्रताः तन्मात्राणि च भूतानि तथा बुद्धीन्द्रियाणि च
कर्मेन्द्रियाणि संशोध्य पुरुषं युगलं तथा चिदात्मानं तनुं कृत्वा चाग्निर्भस्मेति संस्पृशेत्
वायुर्भस्मेति च व्योम तथाम्भः पृथिवी तथा त्रियायुषं त्रिसंध्यं च धूलयेद् भसितेन यः
स योगी सर्वतत्त्वज्ञो व्रतं पाशुपतं त्विदम् भवेन पाशमोक्षार्थं कथितं देवसत्तमाः
एवं पाशुपतं कृत्वा सम्पूज्य परमेश्वरम् लिङ्गे पुरा मया दृष्टे विष्णुना च महात्मना
पशवो नैव जायन्ते वर्षमात्रेण देवताः अस्माभिः सर्वकार्याणां देवमभ्यर्च्य यत्नतः