स्वप्ने दृष्टं यत्पदार्थं ह्यलक्ष्यं दृष्टं नूनं भाति मन्ये न चापि मूर्तिर्नो वै दैवकीशान देवैर् लक्ष्या यत्नैरप्यलक्ष्यं कथं तु
दिव्यः क्व देवेश भवत्प्रभावो वयं क्व भक्तिः क्व च ते स्तुतिश् च तथापि भक्त्या विलपन्तमीश पितामहं मां भगवन्क्षमस्व
य इमं शृणुयाद्द्विजोत्तमा भुवि देवं प्रणिपत्य पठेत् स च मुञ्चति पापबन्धनं भवभक्त्या पुरशासितुः स्तवम्
श्रुत्वा च भक्त्या चतुराननेन स्तुतो हसञ्शैलसुतां निरीक्ष्य स्तवं तदा प्राह महानुभावं महाभुजो मन्दरशृङ्गवासी
स्तवेनानेन तुष्टो ऽस्मि तव भक्त्या च पद्मज वरान् वरय भद्रं ते देवानां च यथेप्सितान्
ततः प्रणम्य देवेशं भगवान्पद्मसंभवः कृताञ्जलिपुटो भूत्वा प्राहेदं प्रीतमानसः
भगवन्देवदेवेश त्रिपुरान्तक शङ्कर त्वयि भक्तिं परां मे ऽद्य प्रसीद परमेश्वरम्
देवानां चैव सर्वेषां त्वयि सर्वार्थदेश्वर प्रसीद भक्तियोगेन सारथ्येन च सर्वदा
जनार्दनो ऽपि भगवान् नमस्कृत्य महेश्वरम् कृताञ्जलिपुटो भूत्वा प्राह सांबं त्रियंबकम्
वाहनत्वं तवेशान नित्यमीहे प्रसीद मे त्वयि भक्तिं च देवेश देवदेव नमो ऽस्तु ते
सामर्थ्यं च सदा मह्यं भवन्तं वोढुमीश्वरम् सर्वज्ञत्वं च वरद सर्वगत्वं च शङ्कर
तयोः श्रुत्वा महादेवो विज्ञप्तिं परमेश्वरः सारथ्ये वाहनत्वे च कल्पयामास वै भवः
दत्त्वा तस्मै ब्रह्मणे विष्णवे च दग्ध्वा दैत्यान्देवदेवो महात्मा सार्धं देव्या नन्दिना भूतसंघैर् अन्तर्धानं कारयामास शर्वः
ततस्तदा महेश्वरे गते रणाद्गणैः सह सुरेश्वराः सुविस्मिता भवं प्रणम्य पार्वतीम्
ययुश् च दुःखवर्जिताः स्ववाहनैर्दिवं ततः सुरेश्वरा मुनीश्वरा गणेश्वराश् च भास्कराः
त्रिपुरारेरिमं पुण्यं निर्मितं ब्रह्मणा पुरा यः पठेच्छ्राद्धकाले वा दैवे कर्मणि च द्विजाः
श्रावयेद्वा द्विजान् भक्त्या ब्रह्मलोकं स गच्छति मानसैर्वाचिकैः पापैस् तथा वै कायिकैः पुनः
स्थूलैः सूक्ष्मैः सुसूक्ष्मैश् च महापातकसंभवैः पातकैश् च द्विजश्रेष्ठा उपपातकसंभवैः
पापैश् च मुच्यते जन्तुः श्रुत्वाध्यायमिमं शुभम् शत्रवो नाशमायान्ति संग्रामे विजयीभवेत्
सर्वरोगैर्न बाध्येत आपदो न स्पृशन्ति तम् धनमायुर्यशो विद्यां प्रभावमतुलं लभेत्
गते महेश्वरे देवे दग्ध्वा च त्रिपुरं क्षणात् सदस्याह सुरेन्द्राणां भगवान्पद्मसंभवः
संत्यज्य देवदेवेशं लिङ्गमूर्तिमहेश्वरम् तारपौत्रो महातेजास् तारकस्य सुतो बली
तारकाक्षो ऽपि दितिजः कमलाक्षश् च वीर्यवान् विद्युन्माली च दैत्येशः अन्ये चापि सबान्धवाः
त्यक्त्वा देवं महादेवं मायया च हरेः प्रभोः सर्वे विनष्टाः प्रध्वस्ताः स्वपुरैः पुरसंभवैः
तस्मात्सदा पूजनीयो लिङ्गमूर्तिः सदाशिवः यावत्पूजा सुरेशानां तावदेव स्थितिर्यतः
पूजनीयः शिवो नित्यं श्रद्धया देवपुङ्गवैः सर्वलिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम्
तस्मात् सम्पूजयेल्लिङ्गं य इच्छेत्सिद्धिमात्मनः सर्वे लिङ्गार्चनादेव देवा दैत्याश् च दानवाः
यक्षा विद्याधराः सिद्धा राक्षसाः पिशिताशनाः पितरो मुनयश्चापि पिशाचाः किन्नरादयः
अर्चयित्वा लिङ्गमूर्ति संसिद्धा नात्र संशयः तस्माल्लिङ्गं यजेन्नित्यं येन केनापि वा सुराः
पशवश् च वयं तस्य देवदेवस्य धीमतः पशुत्वं च परित्यज्य कृत्वा पाशुपतं ततः