नवात्मतत्त्वरूपाय नवाष्टात्मात्मशक्तये पुनरष्टप्रकाशाय तथाष्टाष्टकमूर्तये
चतुःषष्ट्यात्मतत्त्वाय पुनरष्टविधाय ते गुणाष्टकवृतायैव गुणिने निर्गुणाय ते
मूलस्थाय नमस्तुभ्यं शाश्वतस्थानवासिने नाभिमण्डलसंस्थाय हृदि निःस्वनकारिणे
कन्धरे च स्थितायैव तालुरन्ध्रस्थिताय च भ्रूमध्ये संस्थितायैव नादमध्ये स्थिताय च
चन्द्रबिम्बस्थितायैव शिवाय शिवरूपिणे वह्निसोमार्करूपाय षट्त्रिंशच्छक्तिरूपिणे
त्रिधा संवृत्य लोकान्वै प्रसुप्तभुजगात्मने त्रिप्रकारं स्थितायैव त्रेताग्निमयरूपिणे
सदाशिवाय शान्ताय महेशाय पिनाकिने सर्वज्ञाय शरण्याय सद्योजाताय वै नमः
अघोराय नमस्तुभ्यं वामदेवाय ते नमः तत्पुरुषाय नमो ऽस्तु ईशानाय नमोनमः
नमस्त्रिंशत्प्रकाशाय शान्तातीताय वै नमः अनन्तेशाय सूक्ष्माय उत्तमाय नमो ऽस्तु ते
एकाक्षाय नमस्तुभ्यम् एकरुद्राय ते नमः नमस्त्रिमूर्तये तुभ्यं श्रीकण्ठाय शिखण्डिने
अनन्तासनसंस्थाय अनन्तायान्तकारिणे विमलाय विशालाय विमलाङ्गाय ते नमः
विमलासनसंस्थाय विमलार्थार्थरूपिणे योगपीठान्तरस्थाय योगिने योगदायिने
योगिनां हृदि संस्थाय सदा नीवारशूकवत् प्रत्याहाराय ते नित्यं प्रत्याहाररताय ते
प्रत्याहाररतानां च प्रतिस्थानस्थिताय च धारणायै नमस्तुभ्यं धारणाभिरताय ते
धारणाभ्यासयुक्तानां पुरस्तात्संस्थिताय च ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः
ध्येयाय ध्येयगम्याय ध्येयध्यानाय ते नमः ध्येयानामपि ध्येयाय नमो ध्येयतमाय ते
समाधानाभिगम्याय समाधानाय ते नमः समाधानरतानां तु निर्विकल्पार्थरूपिणे
दग्ध्वोद्धृतं सर्वमिदं त्वयाद्य जगत्त्रयं रुद्र पुरत्रयं हि कः स्तोतुमिच्छेत् कथमीदृशं त्वां स्तोष्ये हि तुष्टाय शिवाय तुभ्यम्
भक्त्या च तुष्ट्याद्भुतदर्शनाच्च मर्त्या अमर्त्या अपि देवदेव एते गणाः सिद्धगणैः प्रणामं कुर्वन्ति देवेश गणेश तुभ्यम्
निरीक्षणादेव विभो ऽसि दग्धुं पुरत्रयं चैव जगत्त्रयं च लीलालसेनांबिकया क्षणेन दग्धं किलेषुश् च तदाथ मुक्तः
कृतो रथश्चेषुवरश् च शुभ्रं शरसनं ते त्रिपुरक्षयाय अनेकयत्नैश् च मयाथ तुभ्यं फलं न दृष्टं सुरसिद्धसंघैः
रथो रथी देववरो हरिश् च रुद्रः स्वयं शक्रपितामहौ च त्वमेव सर्वे भगवन् कथं तु स्तोष्ये ह्य् अतोष्यं प्रणिपत्य मूर्ध्ना
अनन्तपादस् त्वम् अनन्तबाहुर् अनन्तमूर्धान्तकरः शिवश् च अनन्तमूर्तिः कथम् ईदृशं त्वां तोष्ये ह्य् अतोष्यं कथमीदृशं त्वाम्
नमोनमः सर्वविदे शिवाय रुद्राय शर्वाय भवाय तुभ्यम् स्थूलाय सूक्ष्माय सुसूक्ष्मसूक्ष्मसूक्ष्माय सूक्ष्मार्थविदे विधात्रे
स्रष्ट्रे नमः सर्वसुरासुराणां भर्त्रे च हर्त्रे जगतां विधात्रे नेत्रे सुराणामसुरेश्वराणां दात्रे प्रशास्त्रे मम सर्वशास्त्रे
वेदान्तवेद्याय सुनिर्मलाय वेदार्थविद्भिः सततं स्तुताय वेदात्मरूपाय भवाय तुभ्यम् अन्ताय मध्याय सुमध्यमाय
आद्यन्तशून्याय च संस्थिताय तथा त्वशून्याय च लिङ्गिने च अलिङ्गिने लिङ्गमयाय तुभ्यं लिङ्गाय वेदादिमयाय साक्षात्
रुद्राय मूर्धाननिकृन्तनाय ममादिदेवस्य च यज्ञमूर्तेः विध्वान्तभङ्गं मम कर्तुमीश दृष्ट्वैव भूमौ करजाग्रकोट्या
अहो विचित्रं तव देवदेव विचेष्टितं सर्वसुरासुरेश देहीव देवैः सह देवकार्यं करिष्यसे निर्गुणरूपतत्त्व
एकं स्थूलं सूक्ष्ममेकं सुसूक्ष्मं मूर्तामूर्तं मूर्तमेकं ह्यमूर्तम् एकं दृष्टं वाङ्मयं चैकमीशं ध्येयं चैकं तत्त्वमत्राद्भुतं ते