गणेश्वरैर् देवगणैश् च भृङ्गी सहावृतः सर्वगणेन्द्रवर्यः जगाम योगी त्रिपुरं निहन्तुं विमानमारुह्य यथा महेन्द्रः
केशो विगतवासाश् च महाकेशो महाज्वरः सोमवल्ली सवर्णश् च सोमपः सेनकस् तथा
सोमधृक् सूर्यवाचश् च सूर्यपेषणकस् तथा सूर्याक्षः सूरिनामा च सुरः सुन्दर एव च
प्रकुदः ककुदन्तश् च कम्पनश् च प्रकम्पनः इन्द्रश् चेन्द्रजयश्चैव महाभीर् भीमकस् तथा
शताक्षश्चैव पञ्चाक्षः सहस्राक्षो महोदरः यमजिह्वः शताश्वश् च कण्ठनः कण्ठपूजनः
द्विशिखस् त्रिशिखश्चैव तथा पञ्चशिखो द्विजाः मुण्डो ऽर्धमुण्डो दीर्घश् च पिशाचास्यः पिनाकधृक्
पिप्पलायतनश्चैव तथा ह्यङ्गारकाशनः शिथिलः शिथिलास्यश् च अक्षपादो ह्यजः कुजः
अजवक्त्रो हयवक्त्रो गजवक्त्रो ऽर्ध्ववक्त्रकः इत्याद्याः परिवार्येशं लक्ष्यलक्षणवर्जिताः
वृन्दशस्तं समावृत्य जग्मुः सोमं गणैर्वृताः सहस्राणां सहस्राणि रुद्राणामूर्ध्वरेतसाम्
समावृत्य महादेवं देवदेवं महेश्वरम् दग्धुं पुरत्रयं जग्मुः कोटिकोटिगणैर्वृताः
त्रयस्त्रिंशत्सुराश्चैव त्रयश् च त्रिशतास् तथा त्रयश् च त्रिसहस्राणि जग्मुर्देवाः समन्ततः
मातरः सर्वलोकानां गणानां चैव मातरः भूतानां मातरश्चैव जग्मुर्देवस्य पृष्ठतः
भाति मध्ये गणानां च रथमध्ये गणेश्वरः नभस्यमलनक्षत्रे तारामध्य इवोडुराट्
रराज देवी देवस्य गिरिजा पार्श्वसंस्थिता तदा प्रभावतो गौरी भवस्येव जगन्मयी
शुभावती तदा देवी पार्श्वसंस्था विभाति सा चामरासक्तहस्ताग्रा सा हेमांबुजवर्णिका
अथ विभाति विभोर्विशदं वपुर् भसितभासितमंबिकया तया सितमिवाभ्रमहो सह विद्युता नभसि देवपतेः परमेष्ठिनः
भातीन्द्रधनुषाकाशं मेरुणा च यथा जगत् हिरण्यधनुषा सौम्यं वपुः शंभोः शशिद्युति
सितातपत्रं रत्नांशुमिश्रितं परमेष्ठिनः यथोदये शशाङ्कस्य भात्यखण्डं हि मण्डलम्
सदुकूला शिवे रक्ता लम्बिता भाति मालिका छत्रान्ता रत्नजाकाशात् पतन्तीव सरिद्वरा
अथ महेन्द्रविरिञ्चिविभावसुप्रभृतिभिर् नतपादसरोरुहः सह तदा च जगाम तयांबया सकललोकहिताय पुरत्रयम्
दग्धुं समर्थो मनसा क्षणेन चराचरं सर्वमिदं त्रिशूली किमत्र दग्धुं त्रिपुरं पिनाकी स्वयं गतश्चात्र गणैश् च सार्धम्
रथेन किं चेषुवरेण तस्य गणैश् च किं देवगणैश् च शंभोः पुरत्रयं दग्धुमलुप्तशक्तेः किमेतद् इत्याहुर् अजेन्द्रमुख्याः
मन्वाम नूनं भगवान्पिनाकी लीलार्थमेतत्सकलं प्रवर्त्तुम् व्यवस्थितश्चेति तथान्यथा चेद् आडम्बरेणास्य फलं किमन्यत्
पुरत्रयस्यास्य समीपवर्ती सुरेश्वरैर् नन्दिमुखैश् च नन्दी गणैर्गणेशस्तु रराज देव्या जगद्रथो मेरुरिवाष्टशृङ्गैः
अथ निरीक्ष्य सुरेश्वरमीश्वरं सगणमद्रिसुतासहितं तदा त्रिपुररङ्गतलोपरि संस्थितः सुरगणो ऽनुजगाम स्वयं तथा
जगत्त्रयं सर्वमिवापरं तत् पुरत्रयं तत्र विभाति सम्यक् नरेश्वरैश्चैव गणैश् च देवैः सुरेतरैश् च त्रिविधैर्मुनीन्द्राः
अथ सज्यं धनुः कृत्वा शर्वः संधाय तं शरम् युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्
तस्मिन् स्थिते महादेवे रुद्रे विततकार्मुके पुराणि तेन कालेन जग्मुरेकत्वमाशु वै
एकीभावं गते चैव त्रिपुरे समुपागते बभूव तुमुलो हर्षो देवतानां महात्मनाम्
ततो देवगणाः सर्वे सिद्धाश् च परमर्षयः जयेति वाचो मुमुचुः संस्तुवन्तो ऽष्टमूर्तिकम्