कालाग्निस्तच्छरस्यैव साक्षात्तीक्ष्णः सुदारुणः अनीकं विषसम्भूतं वायवो वाजकाः स्मृताः
एवं कृत्वा रथं दिव्यं कार्मुकं च शरं तथा सारथिं जगतां चैव ब्रह्माणं प्रभुमीश्वरम्
आरुरोह रथं दिव्यं रणमण्डनधृग् भवः सर्वदेवगणैर्युक्तं कम्पयन्निव रोदसी
ऋषिभिः स्तूयमानश् च वन्द्यमानश् च बन्दिभिः उपनृत्तश्चाप्सरसां गणैर्नृत्यविशारदैः
सुशोभमानो वरदः सम्प्रेक्ष्यैव च सारथिम् तस्मिन्नारोहति रथं कल्पितं लोकसंभृतम्
शिरोभिः पतिता भूमीं तुरगा वेदसंभवाः अथाधस्ताद्रथस्यास्य भगवान् धरणीधरः
वृषेन्द्ररूपी चोत्थाप्य स्थापयामास वै क्षणम् क्षणान्तरे वृषेन्द्रो ऽपि जानुभ्यामगमद्धराम्
अभीषुहस्तो भगवान् उद्यम्य च हयान् विभुः स्थापयामास देवस्य वचनाद्वै रथं शुभम्
ततो ऽश्वांश्चोदयामास मनोमारुतरंहसः पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम्
अथाह भगवान् रुद्रो देवानालोक्य शङ्करः पशूनामाधिपत्यं मे दत्तं हन्मि ततो ऽसुरान्
पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः कल्पयित्वैव वध्यास्ते नान्यथा नैव सत्तमाः
इति श्रुत्वा वचः सर्वं देवदेवस्य धीमतः विषादमगमन् सर्वे पशुत्वं प्रति शङ्किताः
तेषां भावं ततो ज्ञात्वा देवस्तानिदमब्रवीत् मा वो ऽस्तु पशुभावे ऽस्मिन् भयं विबुधसत्तमाः
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः यो वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति
पशुत्वादिति सत्यं च प्रतिज्ञातं समाहिताः ये चाप्यन्ये चरिष्यन्ति व्रतं पाशुपतं मम
मोक्ष्यन्ति ते न संदेहः पशुत्वात् सुरसत्तमाः नैष्ठिकं द्वादशाब्दं वा तदर्धं वर्षकत्रयम्
शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः
तथेति चाब्रुवन्देवाः शिवे लोकनमस्कृते तस्माद्वै पशवः सर्वे देवासुरनराः प्रभोः
रुद्रः पशुपतिश्चैव पशुपाशविमोचकः यः पशुस्तत्पशुत्वं च व्रतेनानेन संत्यजेत्
तत्कृत्वा न च पापीयान् इति शास्त्रस्य निश्चयः ततो विनायकः साक्षाद् बालो ऽबालपराक्रमः
अपूजितस्तदा देवैः प्राह देवान्निवारयन् मामपूज्य जगत्यस्मिन् भक्ष्यभोज्यादिभिः शुभैः
कः पुमान्सिद्धिमाप्नोति देवो वा दानवो ऽपि वा ततस्तस्मिन् क्षणादेव देवकार्ये सुरेश्वराः
विघ्नं करिष्ये देवेश कथं कर्तुं समुद्यताः ततः सेन्द्राः सुराः सर्वे भीताः सम्पूज्य तं प्रभुम्
भक्ष्यभोज्यादिभिश्चैव उण्डरैश्चैव मोदकैः अब्रुवंस्ते गणेशानं निर्विघ्नं चास्तु नः सदा
आलिङ्ग्य चाघ्राय सुतं तदानीमपूजयत्सर्वसुरेन्द्रमुख्यः
सम्पूज्य पूज्यं सह देवसंघैर् विनायकं नायकमीश्वराणाम् गणेश्वरैरेव नगेन्द्रधन्वा पुरत्रयं दग्धुमसौ जगाम
तं देवदेवं सुरसिद्धसंघा महेश्वरं भूतगणाश् च सर्वे गणेश्वरा नन्दिमुखास्तदानीं स्ववाहनैरन्वयुरीशमीशाः
अग्रे सुराणां च गणेश्वराणां तदाथ नन्दी गिरिराजकल्पम् विमानमारुह्य पुरं प्रहर्तुं जगाम मृत्युं भगवानिवेशः
यान्तं तदानीं तु शिलादपुत्रम् आरुह्य नागेन्द्रवृषाश्ववर्यान् देवास्तदानीं गणपाश् च सर्वे गणा ययुः स्वायुधचिह्नहस्ताः
जगाम जगतां हिताय पुरत्रयं दग्धुमलुप्तशक्तिः