ऋक्षाणि च तदा तस्य वामस्यैव तु भूषणम् नेम्यः षडृतवश्चैव तयोर्वै विप्रपुङ्गवाः
पुष्करं चान्तरिक्षं वै रथनीडश् च मन्दरः अस्ताद्रिरुदयाद्रिश् च उभौ तौ कूबरौ स्मृतौ
अधिष्ठानं महामेरुर् आश्रयाः केसराचलाः वेगः संवत्सरस्तस्य अयने चक्रसंगमौ
मुहूर्ता बन्धुरास्तस्य शम्याश्चैव कलाः स्मृताः तस्य काष्ठाः स्मृता घोणा चाक्षदण्डाः क्षणाश् च वै
निमेषाश्चानुकर्षाश् च ईषा चास्य लवाः स्मृताः द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ
धर्मो विरागो दण्डो ऽस्य यज्ञा दण्डाश्रयाः स्मृताः दक्षिणाः संधयस्तस्य लोहाः पञ्चाशदग्नयः
युगान्तकोटी तौ तस्य धर्मकामावुभौ स्मृतौ ईषादण्डस्तथाव्यक्तं बुद्धिस्तस्यैव नड्वलः
कोणस् तथा ह्यहङ्कारो भूतानि च बलं स्मृतम् इन्द्रियाणि च तस्यैव भूषणानि समन्ततः
श्रद्धा च गतिरस्यैव वेदास्तस्य हयाः स्मृताः पदानि भूषणान्येव षडङ्गान्युपभूषणम्
पुराणन्यायमीमांसाधर्मशास्त्राणि सुव्रताः वालाश्रयाः पटाश्चैव सर्वलक्षणसंयुताः
मन्त्रा घण्टाः स्मृतास्तेषां वर्णाः पादास्तथाश्रमाः अवच्छेदो ह्यनन्तस्तु सहस्रफणभूषितः
दिशः पादा रथस्यास्य तथा चोपदिशश् च ह पुष्कराद्याः पताकाश् च सौवर्णा रत्नभूषिताः
समुद्रास्तस्य चत्वारो रथकम्बलिकाः स्मृताः गङ्गाद्याः सरितः श्रेष्ठाः सर्वाभरणभूषिताः
चामरासक्तहस्ताग्राः सर्वाः स्त्रीरूपशोभिताः तत्रतत्र कृतस्थानाः शोभयांचक्रिरे रथम्
आवहाद्यास् तथा सप्त सोपानं हैममुत्तमम् सारथिर्भगवान्ब्रह्मा देवाभीषुधराः स्मृताः
प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् लोकालोकाचलस्तस्य ससोपानः समन्ततः
विषमश् च तदा बाह्यो मानसाद्रिः सुशोभनः नासाः समन्ततस्तस्य सर्व एवाचलाः स्मृताः
तलाः कपोताः कापोताः सर्वे तलनिवासिनः मेरुरेव महाछत्रं मन्दरः पार्श्वडिण्डिमः
शैलेन्द्रः कार्मुकं चैव ज्या भुजङ्गाधिपः स्वयम् कालरात्र्या तथैवेह तथेन्द्रधनुषा पुनः
घण्टा सरस्वती देवी धनुषः श्रुतिरूपिणी इषुर्विष्णुर्महातेजाः शल्यं सोमः शरस्य च
कालाग्निस्तच्छरस्यैव साक्षात्तीक्ष्णः सुदारुणः अनीकं विषसम्भूतं वायवो वाजकाः स्मृताः
एवं कृत्वा रथं दिव्यं कार्मुकं च शरं तथा सारथिं जगतां चैव ब्रह्माणं प्रभुमीश्वरम्
आरुरोह रथं दिव्यं रणमण्डनधृग् भवः सर्वदेवगणैर्युक्तं कम्पयन्निव रोदसी
ऋषिभिः स्तूयमानश् च वन्द्यमानश् च बन्दिभिः उपनृत्तश्चाप्सरसां गणैर्नृत्यविशारदैः
सुशोभमानो वरदः सम्प्रेक्ष्यैव च सारथिम् तस्मिन्नारोहति रथं कल्पितं लोकसंभृतम्
शिरोभिः पतिता भूमीं तुरगा वेदसंभवाः अथाधस्ताद्रथस्यास्य भगवान् धरणीधरः
वृषेन्द्ररूपी चोत्थाप्य स्थापयामास वै क्षणम् क्षणान्तरे वृषेन्द्रो ऽपि जानुभ्यामगमद्धराम्
अभीषुहस्तो भगवान् उद्यम्य च हयान् विभुः स्थापयामास देवस्य वचनाद्वै रथं शुभम्
ततो ऽश्वांश्चोदयामास मनोमारुतरंहसः पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम्
अथाह भगवान् रुद्रो देवानालोक्य शङ्करः पशूनामाधिपत्यं मे दत्तं हन्मि ततो ऽसुरान्