रक्ताय रक्तनेत्राय रक्तांबरधराय ते रक्तानां भवपादाब्जे रुद्रलोकप्रदायिने
नमः सेनाधिपतये रुद्राणां पतये नमः भूतानां भुवनेशानां पतये पापहारिणे
रुद्राय रुद्रपतये रौद्रपापहराय ते नमः शिवाय सौम्याय रुद्रभक्ताय ते नमः
ततः प्रीतो गणाध्यक्षः प्राह देवांश्छिवात्मजः रथं च सारथिं शंभोः कार्मुकं शरमुत्तमम्
कर्तुमर्हथ यत्नेन नष्टं मत्वा पुरत्रयम् अथ ते ब्रह्मणा सार्धं तथा वै विश्वकर्मणा
रथं चक्रुः सुसंरब्धा देवदेवस्य धीमतः
अथ रुद्रस्य देवस्य निर्मितो विश्वकर्मणा सर्वलोकमयो दिव्यो रथो यत्नेन सादरम्
सर्वभूतमयश्चैव सर्वदेवनमस्कृतः सर्वदेवमयश्चैव सौवर्णः सर्वसंमतः
रथाङ्गं दक्षिणं सूर्यो वामाङ्गं सोम एव च दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम्
अरेषु तेषु विप्रेन्द्राश् चादित्या द्वादशैव तु शशिनः षोडशारेषु कला वामस्य सुव्रताः
ऋक्षाणि च तदा तस्य वामस्यैव तु भूषणम् नेम्यः षडृतवश्चैव तयोर्वै विप्रपुङ्गवाः
पुष्करं चान्तरिक्षं वै रथनीडश् च मन्दरः अस्ताद्रिरुदयाद्रिश् च उभौ तौ कूबरौ स्मृतौ
अधिष्ठानं महामेरुर् आश्रयाः केसराचलाः वेगः संवत्सरस्तस्य अयने चक्रसंगमौ
मुहूर्ता बन्धुरास्तस्य शम्याश्चैव कलाः स्मृताः तस्य काष्ठाः स्मृता घोणा चाक्षदण्डाः क्षणाश् च वै
निमेषाश्चानुकर्षाश् च ईषा चास्य लवाः स्मृताः द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ
धर्मो विरागो दण्डो ऽस्य यज्ञा दण्डाश्रयाः स्मृताः दक्षिणाः संधयस्तस्य लोहाः पञ्चाशदग्नयः
युगान्तकोटी तौ तस्य धर्मकामावुभौ स्मृतौ ईषादण्डस्तथाव्यक्तं बुद्धिस्तस्यैव नड्वलः
कोणस् तथा ह्यहङ्कारो भूतानि च बलं स्मृतम् इन्द्रियाणि च तस्यैव भूषणानि समन्ततः
श्रद्धा च गतिरस्यैव वेदास्तस्य हयाः स्मृताः पदानि भूषणान्येव षडङ्गान्युपभूषणम्
पुराणन्यायमीमांसाधर्मशास्त्राणि सुव्रताः वालाश्रयाः पटाश्चैव सर्वलक्षणसंयुताः
मन्त्रा घण्टाः स्मृतास्तेषां वर्णाः पादास्तथाश्रमाः अवच्छेदो ह्यनन्तस्तु सहस्रफणभूषितः
दिशः पादा रथस्यास्य तथा चोपदिशश् च ह पुष्कराद्याः पताकाश् च सौवर्णा रत्नभूषिताः
समुद्रास्तस्य चत्वारो रथकम्बलिकाः स्मृताः गङ्गाद्याः सरितः श्रेष्ठाः सर्वाभरणभूषिताः
चामरासक्तहस्ताग्राः सर्वाः स्त्रीरूपशोभिताः तत्रतत्र कृतस्थानाः शोभयांचक्रिरे रथम्
आवहाद्यास् तथा सप्त सोपानं हैममुत्तमम् सारथिर्भगवान्ब्रह्मा देवाभीषुधराः स्मृताः
प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् लोकालोकाचलस्तस्य ससोपानः समन्ततः
विषमश् च तदा बाह्यो मानसाद्रिः सुशोभनः नासाः समन्ततस्तस्य सर्व एवाचलाः स्मृताः
तलाः कपोताः कापोताः सर्वे तलनिवासिनः मेरुरेव महाछत्रं मन्दरः पार्श्वडिण्डिमः
शैलेन्द्रः कार्मुकं चैव ज्या भुजङ्गाधिपः स्वयम् कालरात्र्या तथैवेह तथेन्द्रधनुषा पुनः
घण्टा सरस्वती देवी धनुषः श्रुतिरूपिणी इषुर्विष्णुर्महातेजाः शल्यं सोमः शरस्य च