नाभेरधस्ताद्वा विद्वान् ध्यात्वा कमलमुत्तमम् त्र्यङ्गुले चाष्टकोणं वा पञ्चकोणमथापि वा
त्रिकोणं च तथाग्नेयं सौम्यं सौरं स्वशक्तिभिः सौरं सौम्य तथाग्नेयम् अथ वानुक्रमेण तु
आग्नेयं च ततः सौरं सौम्यमेवं विधानतः अग्नेरधः प्रकल्प्यैवं धर्मादीनां चतुष्टयम्
गुणत्रयं क्रमेणैव मण्डलोपरि भावयेत् सत्त्वस्थं चिन्तयेद्रुद्रं स्वशक्त्या परिमण्डितम्
नाभौ वाथ गले वापि भ्रूमध्ये वा यथाविधि ललाटफलिकायां वा मूर्ध्नि ध्यानं समाचरेत्
द्विदले षोडशारे वा द्वादशारे क्रमेण तु दशारे वा षडस्रे वा चतुरस्रे स्मरेच्छिवम्
कनकाभे तथागारसंनिभे सुसिते ऽपि वा द्वादशादित्यसंकाशे चन्द्रबिम्बसमे ऽपि वा
विद्युत्कोटिनिभे स्थाने चिन्तयेत्परमेश्वरम् अग्निवर्णे ऽथवा विद्युद् वलयाभे समाहितः
वज्रकोटिप्रभे स्थाने पद्मरागनिभे ऽपि वा नीललोहितबिम्बे वा योगी ध्यानं समभ्यसेत्
महेश्वरं हृदि ध्यायेन् नाभिपद्मे सदाशिवम् चन्द्रचूडं ललाटे तु भ्रूमध्ये शंकरं स्वयम्
दिव्ये च शाश्वतस्थाने शिवध्यानं समभ्यसेत् निर्मलं निष्कलं ब्रह्म सुशान्तं ज्ञानरूपिणम्
अलक्षणमनिर्देश्यम् अणोरल्पतरं शुभम् निरालम्बम् अतर्क्यं च विनाशोत्पत्तिवर्जितम्
कैवल्यं चैव निर्वाणं निःश्रेयसम् अनुत्तमम् अमृतं चाक्षरं ब्रह्म ह्य् अपुनर्भवम् अद्भुतम्
महानन्दं परानन्दं योगानन्दमनामयम् हेयोपादेयरहितं सूक्ष्मात्सूक्ष्मतरं शिवम्
स्वयंवेद्यमवेद्यं तच् छिवं ज्ञानमयं परम् अतीन्द्रियम् अनाभासं परं तत्त्वं परात्परम्
सर्वोपाधिविनिर्मुक्तं ध्यानगम्यं विचारतः अद्वयं तमसश्चैव परस्तात्संस्थितं परम्
मनस्येवं महादेवं हृत्पद्मे वापि चिन्तयेत् नाभौ सदाशिवं चापि सर्वदेवात्मकं विभुम्
देहमध्ये शिवं देवं शुद्धज्ञानमयं विभुम् कन्यसेनैव मार्गेण चोद्घातेनापि शंकरम्
क्रमशः कन्यसेनैव मध्यमेनापि सुव्रतः उत्तमेनापि वै विद्वान् कुम्भकेन समभ्यसेत्
द्वात्रिंशद् रेचयेद्धीमान् हृदि नाभौ समाहितः रेचकं पूरकं त्यक्त्वा कुम्भकं च द्विजोत्तमाः
साक्षात्समरसेनैव देहमध्ये स्मरेच्छिवम् एकीभावं समेत्यैवं तत्र यद्रससम्भवम्
आनन्दं ब्रह्मणो विद्वान् साक्षात्समरसे स्थितः धारणा द्वादशायामा ध्यानं द्वादश धारणम्
ध्यानं द्वादशकं यावत् समाधिर् अभिधीयते अथवा ज्ञानिनां विप्राः सम्पर्कादेव जायते
प्रयत्नाद्वा तयोस्तुल्यं चिराद्वा ह्यचिराद्द्विजाः योगान्तरायास् तस्याथ जायन्ते युञ्जतः पुनः
नश्यन्त्य् अभ्यासतस् ते ऽपि प्रणिधानेन वै गुरोः
आलस्यं प्रथमं पश्चाद् व्याधिपीडा प्रजायते प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः
अश्रद्धादर्शनं भ्रान्तिर् दुःखं च त्रिविधं ततः दौर्मनस्यमयोग्येषु विषयेषु च योग्यता
दशधाभिप्रजायन्ते मुनेर्योगान्तरायकाः आलस्यं चाप्रवृत्तिश् च गुरुत्वात्कायचित्तयोः
व्याधयो धातुवैषम्यात् कर्मजा दोषजास् तथा प्रमादस्तु समाधेस्तु साधनानाम् अभावनम्
इदं वेत्युभयस्पृक्तं विज्ञानं स्थानसंशयः अनवस्थितचित्तत्वम् अप्रतिष्ठा हि योगिनः