गङ्गादिभिः कृत्तिकाद्यैः स्वाहया च विशेषतः इत्येवं लोकमातुश् च वाग्भिः संबोधितः शिवः
न ययौ तृप्तिमीशानः पिबन्स्कन्दाननामृतम् न सस्मार च तान्देवान् दैत्यशस्त्रनिपीडितान्
स्कन्दमालिङ्ग्य चाघ्राय नृत्य पुत्रेत्युवाच ह सो ऽपि लीलालसो बालो ननर्तार्तिहरः प्रभुः
सहैव ननृतुश्चान्ये सह तेन गणेश्वराः त्रैलोक्यमखिलं तत्र ननर्तेशाज्ञया क्षणम्
नागाश् च ननृतुः सर्वे देवाः सेन्द्रपुरोगमाः तुष्टुवुर्गणपाः स्कन्दं मुमोदांबा च मातरः
ससृजुः पुष्पवर्षाणि जगुर्गन्धर्वकिन्नराः नृत्यामृतं तदा पीत्वा पार्वतीपरमेश्वरौ अवापतुस् तदा तृप्तिं नन्दिना च गणेश्वराः
ततः स नन्दी सह षण्मुखेन तथा च सार्धं गिरिराजपुत्र्या विवेश दिव्यं भवनं भवो ऽपि यथाम्बुदो ऽन्याम्बुदम् अम्बुदाभः
द्वारस्य पार्श्वे ते तस्थुर् देवा देवस्य धीमतः तुष्टुवुश् च महादेवं किंचिद् उद्विग्नचेतसः
किंतु किंत्विति चान्योन्यं प्रेक्ष्य चैतत्समाकुलाः पापा वयम् इति ह्यन्ये अभाग्याश्चेति चापरे
भाग्यवन्तश् च दैत्येन्द्रा इति चान्ये सुरेश्वराः पूजाफलमिमं तेषाम् इत्यन्ये नेति चापरे
एतस्मिन्नन्तरे तेषां श्रुत्वा शब्दाननेकशः कुम्भोदरो महातेजा दण्डेनाताडयत्सुरान्
दुद्रुवुस्ते भयाविष्टा देवा हाहेतिवादिनः अपतन्मुनयश्चान्ये देवाश् च धरणीतले
अहो विधेर्बलं चेति मुनयः कश्यपादयः दृष्ट्वापि देवदेवेशं देवानां चासुरद्विषाम्
अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः प्रोचुर्नमः शिवायेति पूज्य चाल्पतरं हृदि
ततः कपर्दी नन्दीशो महादेवप्रियो मुनिः शूली माली तथा हाली कुण्डली वलयी गदी
वृषमारुह्य सुश्वेतं ययौ तस्याज्ञया तदा ततो वै नन्दिनं दृष्ट्वा गणः कुम्भोदरो ऽपि सः
प्रणम्य नन्दिनं मूर्ध्ना सह तेन त्वरन् ययौ नन्दी भाति महातेजा वृषपृष्ठे वृषध्वजः
सगणो गणसेनानीर् मेघपृष्ठे यथा भवः दशयोजनविस्तीर्णं मुक्ताजालैर् अलंकृतम्
सितातपत्रं शैलादेर् आकाशमिव भाति तत् तत्रान्तर्बद्धमाला सा मुक्ताफलमयी शुभा
गङ्गाकाशान्निपतिता भाति मूर्ध्नि विभोर्यथा अथ दृष्ट्वा गणाध्यक्षं देवदुन्दुभयः शुभाः
नियोगाद्वज्रिणः सर्वे विनेदुर्मुनिपुङ्गवाः तुष्टुवुश् च गणेशानं वाग्भिर् इष्टप्रदं शुभम्
यथा देवा भवं दृष्ट्वा प्रीतिकण्टकितत्वचः नियोगाद्वज्रिणो मूर्ध्नि पुष्पवर्षं च खेचराः
ववृषुश् च सुगन्धाढ्यं नन्दिनो गगनोदितम् वृष्ट्या तुष्टस्तदा रेजे तुष्ट्या पुष्ट्या यथार्थया
नन्दी भवश् चान्द्रयातु स्नातया गन्धवारिणा पुष्पैर्नानाविधैस्तत्र भाति पृष्ठं वृषस्य तत्
संकीर्णं तु दिवः पृष्ठं नक्षत्रैरिव सुव्रताः कुसुमैः संवृतो नन्दी वृषपृष्ठे रराज सः
दिवः पृष्ठे यथा चन्द्रो नक्षत्रैरिव सुव्रताः तं दृष्ट्वा नन्दिनं देवाः सेन्द्रोपेन्द्रास् तथाविधम्
तुष्टुवुर् गणपेशानं देवदेवमिवापरम् नमस्ते रुद्रभक्ताय रुद्रजाप्यरताय च
रुद्रभक्तार्तिनाशाय रौद्रकर्मरताय ते कूष्माण्डगणनाथाय योगिनां पतये नमः
सर्वदाय शरण्याय सर्वज्ञायार्तिहारिणे वेदानां पतये चैव वेदवेद्याय ते नमः
वज्रिणे वज्रदंष्ट्राय वज्रिवज्रनिवारिणे वज्रालंकृतदेहाय वज्रिणाराधिताय ते