एवं स्तुत्वा महादेवं दण्डवत्प्रणिपत्य च जजाप रुद्रं भगवान् कोटिवारं जले स्थितः
देवाश् च सर्वे ते देवं तुष्टुवुः परमेश्वरम् सेन्द्राः ससाध्याः सयमाः सरुद्राः समरुद्गणाः
नमः सर्वात्मने तुभ्यं शङ्करायार्तिहारिणे रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे
गतिर्नः सर्वदास्माभिर् वन्द्यो देवारिमर्दनः त्वमादिस्त्वमनन्तश् च अनन्तश्चाक्षयः प्रभुः
प्रकृतिः पुरुषः साक्षात् स्रष्टा हर्ता जगद्गुरो त्राता नेता जगत्यस्मिन् द्विजानां द्विजवत्सल
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः याज्यो मुक्त्यर्थमीशानो योगिभिर् योगविभ्रमैः
हृत्पुण्डरीकसुषिरे योगिनां संस्थितः सदा वदन्ति सूरयः सन्तं परं ब्रह्मस्वरूपिणम्
भवन्तं तत्त्वम् इत्यार्यास् तेजोराशिं परात्परम् परमात्मानमित्याहुर् अस्मिञ्जगति तद्विभो
दृष्टं श्रुतं स्थितं सर्वं जायमानं जगद्गुरो अणोरल्पतरं प्राहुर् महतो ऽपि महत्तरम्
सर्वतः पाणिपादं त्वां सर्वतो ऽक्षिशिरोमुखम् सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि
महादेवमनिर्देश्यं सर्वज्ञं त्वामनामयम् विश्वरूपं विरूपाक्षं सदाशिवम् अनामयम्
कोटिभास्करसंकाशं कोटिशीतांशुसन्निभम् कोटिकालाग्निसंकाशं षड्विंशकमनीश्वरम्
प्रवर्तकं जगत्यस्मिन् प्रकृतेः प्रपितामहम् वदन्ति वरदं देवं सर्वावासं स्वयंभुवम्
श्रुतयः श्रुतिसारं त्वां श्रुतिसारविदो जनाः
अदृष्टमस्माभिर् अनेकमूर्ते विना कृतं यद्भवताथ लोके त्वमेव दैत्यासुरभूतसंघान् देवान् नरान् स्थावरजङ्गमांश् च
पाहि नान्या गतिः शंभो विनिहत्यासुरोत्तमान् मायया मोहिताः सर्वे भवतः परमेश्वर
यथा तरङ्गा लहरीसमूहा युध्यन्ति चान्योन्यमपांनिधौ च जलाश्रयादेव जडीकृताश् च सुरासुरास्तद्वदजस्य सर्वम्
य इदं प्रातरुत्थाय शुचिर्भूत्वा जपेन्नरः शृणुयाद्वा स्तवं पुण्यं सर्वकामम् अवाप्नुयात्
स्तुतस्त्वेवं सुरैर्विष्णोर् जपेन च महेश्वरः सोमः सोमाम् अथालिङ्ग्य नन्दिदत्तकरः स्मयन्
प्राह गंभीरया वाचा देवानालोक्य शङ्करः ज्ञातं मयेदमधुना देवकार्यं सुरेश्वराः
विष्णोर् मायाबलं चैव नारदस्य च धीमतः तेषामधर्मनिष्ठानां दैत्यानां देवसत्तमाः
पुरत्रयविनाशं च करिष्ये ऽहं सुरोत्तमाः अथ सब्रह्मका देवाः सेन्द्रोपेन्द्राः समागताः
श्रुत्वा प्रभोस्तदा वाक्यं प्रणेमुस्तुष्टुवुश् च ते अप्येतदन्तरे देवी देवमालोक्य विस्मिता
लीलांबुजेन चाहत्य कलमाह वृषध्वजम् क्रीडमानं विभो पश्य षण्मुखं रविसन्निभम्
पुत्रं पुत्रवतां श्रेष्ठं भूषितं भूषणैः शुभैः मुकुटैः कटकैश्चैव कुण्डलैर्वलयैः शुभैः
नूपुरैश्छन्नवारैश् च तथा ह्य् उदरबन्धनैः किङ्किणीभिर् अनेकाभिर् हैमैरश्वत्थपत्रकैः
कल्पकद्रुमजैः पुष्पैः शोभितैरलकैः शुभैः हारैर् वारिजरागादिमणिचित्रैस् तथाङ्गदैः
मुक्ताफलमयैर्हारैः पूर्णचन्द्रसमप्रभैः तिलकैश् च महादेव पश्य पुत्रं सुशोभनम्
अङ्कितं कुङ्कुमाद्यैश् च वृत्तं भसितनिर्मितम् वक्त्रवृन्दं च पश्येश वृन्दं कामलकं यथा
नेत्राणि च विभो पश्य शुभानि त्वं शुभानि च अञ्जनानि विचित्राणि मङ्गलार्थं च मातृभिः