धर्मादैश्वर्यमित्येषा श्रुतिरेषा सनातनी दैत्याश्चैते हि धर्मिष्ठाः सर्वे त्रिपुरवासिनः
तस्मादवध्यतां प्राप्ता नान्यथा द्विजपुङ्गवाः कृत्वापि सुमहत्पापं रुद्रमभ्यर्चयन्ति ये
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवांभसा पूजया भोगसंपत्तिर् अवश्यं जायते द्विजाः
तस्मात्ते भोगिनो दैत्या लिङ्गार्चनपरायणाः तस्मात्कृत्वा धर्मविघ्नम् अहं देवाः स्वमायया
दैत्यानां देवकार्यार्थं जेष्ये ऽहं त्रिपुरं क्षणात् विचार्यैवं ततस्तेषां भगवान्पुरुषोत्तमः कर्तुं व्यवसितश्चाभूद् धर्मविघ्नं सुरारिणाम्
असृजच्च महातेजाः पुरुषं चात्मसंभवम् मायी मायामयं तेषां धर्मविघ्नार्थमच्युतः
शास्त्रं च शास्ता सर्वेषाम् अकरोत्कामरूपधृक् सर्वसंमोहनं मायी दृष्टप्रत्ययसंयुतम्
एतत्स्वाङ्गभवायैव पुरुषायोपदिश्य तु मायी मायामयं शास्त्रं ग्रन्थषोडशलक्षकम्
श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम् इहैव स्वर्गनरकं प्रत्ययं नान्यथा पुनः
तच्छास्त्रमुपदिश्यैव पुरुषायाच्युतः स्वयम् पुरत्रयविनाशाय प्राहैनं पुरुषं हरिः
गन्तुमर्हसि नाशाय भो तूर्णं पुरवासिनाम् धर्मास् तथा प्रणश्यन्तु श्रौतस्मार्ता न संशयः
ततः प्रणम्य तं मायी मायाशास्त्रविशारदः प्रविश्य तत्पुरं तूर्णं मुनिर्मायां तदाकरोत्
मायया तस्य ते दैत्याः पुरत्रयनिवासिनः श्रौतं स्मार्तं च संत्यज्य तस्य शिष्यास्तदाभवन्
तत्यजुश् च महादेवं शङ्करं परमेश्वरम् नारदो ऽपि तदा मायी नियोगान्मायिनः प्रभोः
प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः मुनिः शिष्यैः प्रशिष्यैश् च संवृतः सर्वतः स्वयम्
स्त्रीधर्मं चाकरोत्स्त्रीणां दुश्चारफलसिद्धिदम् चक्रुस्ताः सर्वदा लब्ध्वा सद्य एव फलं स्त्रियः
जनासक्ता बभूवुस्ता विनिन्द्य पतिदेवताः अद्यापि गौरवात्तस्य नारदस्य कलौ मुनेः
नार्यश्चरन्ति संत्यज्य भर्तॄन् स्वैरं वृथाधमाः स्त्रीणां माता पिता बन्धुः सखा मित्रं च बान्धवः
भर्ता एव न संदेहस् तथाप्य् आसहमायया कृत्वापि सुमहत्पापं या भर्तुः प्रेमसंयुता
प्राप्नुयात् परमं स्वर्गं नरकं च विपर्ययात् पुरैका मुनिशार्दूलाः सर्वधर्मान् सदा पतिम्
संत्यज्यापूजयन्साध्व्यो देवानन्याञ्जगद्गुरून् ताः स्वर्गलोकमासाद्य मोदन्ते विगतज्वराः
नरकं च जगामान्या तस्माद्भर्ता परा गतिः तथापि भर्तॄन् स्वांस् त्यक्त्वा बभूवुः स्वैरवृत्तयः
मायया देवदेवस्य विष्णोस्तस्याज्ञया प्रभोः अलक्ष्मीश् च स्वयं तस्य नियोगात्त्रिपुरं गता
या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादजात् बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः
बुद्धिमोहं तथाभूतं विष्णुमायाविनिर्मितम् तेषां दत्त्वा क्षणं देवस् तासां मायी च नारदः
सुखासीनौ ह्यसंभ्रान्तौ धर्मविघ्नार्थमव्ययौ एवं नष्टे तदा धर्मे श्रौतस्मार्ते सुशोभने
पाषण्डे ख्यापिते तेन विष्णुना विश्वयोनिना त्यक्ते महेश्वरे दैत्यैस् त्यक्ते लिङ्गार्चने तथा
स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते कृतार्थ इव देवेशो देवैः सार्धमुमापतिम्
तपसा प्राप्य सर्वज्ञं तुष्टाव पुरुषोत्तमः महेश्वराय देवाय नमस्ते परमात्मने
नारायणाय शर्वाय ब्रह्मणे ब्रह्मरूपिणे शाश्वताय ह्यनन्ताय अव्यक्ताय च ते नमः