अपापा नैव हन्तव्याः पापा एव न संशयः हन्तव्याः सर्वयत्नेन कथं वध्याः सुरोत्तमाः
असुरा दुर्मदाः पापा अपि देवैर्महाबलैः तस्मान्न वध्या रुद्रस्य प्रभावात् परमेष्ठिनः
को ऽहं ब्रह्माथवा देवा दैत्या देवारिसूदनाः मुनयश् च महात्मानः प्रसादेन विना प्रभोः
यः सप्तविंशको नित्यः परात्परतरः प्रभुः विश्वामरेश्वरो वन्द्यो विश्वाधारो महेश्वरः
स एव सर्वदेवेशः सर्वेषामपि शङ्करः लीलया देवदैत्येन्द्रविभागमकरोद्धरः
तस्यांशम् एकं सम्पूज्य देवा देवत्वम् आगताः ब्रह्मा ब्रह्मत्वम् आपन्नो ह्य् अहं विष्णुत्वमेव च
तम् अपूज्य जगत्यस्मिन् कः पुमान् सिद्धिमिच्छति तस्मात्तेनैव हन्तव्या लिङ्गार्चनविधेर् बलात्
धर्मनिष्ठाश् च ते सर्वे श्रौतस्मार्तविधौ स्थिताः तथापि यजमानेन रौद्रेणोपसदा प्रभुम् रुद्रमिष्ट्वा यथान्यायं जेष्यामो दैत्यसत्तमान्
सतारकाक्षेण मयेन गुप्तं स्वस्थं च गुप्तं स्फटिकाभमेकम् को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम्
एवमुक्त्वा हरिश्चेष्ट्वा यज्ञेनोपसदा प्रभुम् उपविष्टो ददर्शाथ भूतसंघान्सहस्रशः
शूलशक्तिगदाहस्तान् टङ्कोपलशिलायुधान् नानाप्रहरणोपेतान् नानावेषधरांस्तदा
कालाग्निरुद्रसंकाशान् कालरुद्रोपमांस्तदा प्राह देवो हरिः साक्षात् प्रणिपत्य स्थितान् प्रभुः
दग्ध्वा भित्त्वा च भुक्त्वा च गत्वा दैत्यपुरत्रयम् पुनर्यथागतं वीरा गन्तुमर्हथ भूतये
ततः प्रणम्य देवेशं भूतसंघाः पुरत्रयम् प्रविश्य नष्टास्ते सर्वे शलभा इव पावकम्
ततस्तु नष्टास्ते सर्वे भूता देवेश्वराज्ञया ननृतुर् मुमुदुश् चैव जगुर् दैत्याः सहस्रशः
तुष्टुवुर्देवदेवेशं परमात्मानमीश्वरम् ततः पराजिता देवा ध्वस्तवीर्याः क्षणेन तु
सेन्द्राः संगम्य देवेशम् उपेन्द्रं धिष्ठिता भयात् तान्दृष्ट्वा चिन्तयामास भगवान्पुरुषोत्तमः
किं कृत्यमिति संतप्तः संतप्तान्सेन्द्रकान्क्षणम् कथं तु तेषां दैत्यानां बलं हत्वा प्रयत्नतः
देवकार्यं करिष्यामि प्रसादात्परमेष्ठिनः पापं विचारतो नास्ति धर्मिष्ठानां न संशयः
तस्माद्दैत्या न वध्यास्ते भूतैश्चोपसदोद्भवैः पापं नुदति धर्मेण धर्मे सर्वं प्रतिष्ठितम्
धर्मादैश्वर्यमित्येषा श्रुतिरेषा सनातनी दैत्याश्चैते हि धर्मिष्ठाः सर्वे त्रिपुरवासिनः
तस्मादवध्यतां प्राप्ता नान्यथा द्विजपुङ्गवाः कृत्वापि सुमहत्पापं रुद्रमभ्यर्चयन्ति ये
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवांभसा पूजया भोगसंपत्तिर् अवश्यं जायते द्विजाः
तस्मात्ते भोगिनो दैत्या लिङ्गार्चनपरायणाः तस्मात्कृत्वा धर्मविघ्नम् अहं देवाः स्वमायया
दैत्यानां देवकार्यार्थं जेष्ये ऽहं त्रिपुरं क्षणात् विचार्यैवं ततस्तेषां भगवान्पुरुषोत्तमः कर्तुं व्यवसितश्चाभूद् धर्मविघ्नं सुरारिणाम्
असृजच्च महातेजाः पुरुषं चात्मसंभवम् मायी मायामयं तेषां धर्मविघ्नार्थमच्युतः
शास्त्रं च शास्ता सर्वेषाम् अकरोत्कामरूपधृक् सर्वसंमोहनं मायी दृष्टप्रत्ययसंयुतम्
एतत्स्वाङ्गभवायैव पुरुषायोपदिश्य तु मायी मायामयं शास्त्रं ग्रन्थषोडशलक्षकम्
श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम् इहैव स्वर्गनरकं प्रत्ययं नान्यथा पुनः
तच्छास्त्रमुपदिश्यैव पुरुषायाच्युतः स्वयम् पुरत्रयविनाशाय प्राहैनं पुरुषं हरिः