लिङ्गस्याराधनं स्नानविधानं शौचलक्षणम् वाराणस्याश् च माहात्म्यं क्षेत्रमाहात्म्यवर्णनम्
भुवि रुद्रालयानां तु संख्या विष्णोर्गृहस्य च अन्तरिक्षे तथाण्डे ऽस्मिन् देवायतनवर्णनम्
दक्षस्य पतनं भूमौ पुनः स्वारोचिषे ऽन्तरे दक्षशापश् च दक्षस्य शापमोक्षस्तथैव च
कैलासवर्णनं चैव योगः पाशुपतस् तथा चतुर्युगप्रमाणं च युगधर्मः सुविस्तरः
संध्यांशकप्रमाणं च संध्यावृत्तं भवस्य च श्मशाननिलयश्चैव चन्द्ररेखासमुद्भवः
उद्वाहः शंकरस्याथ पुत्रोत्पादनमेव च मैथुनातिप्रसङ्गेन विनाशो जगतां भयम्
शापः सत्या कृतो देवान्पुरा विष्णुं च पालितम् शुक्रोत्सर्गस्तु रुद्रस्य गाङ्गेयोद्भव एव च
ग्रहणादिषु कालेषु स्नाप्य लिङ्गं फलं तथा क्षुब्धधी च विवादश् च दधीचोपेन्द्रयोस् तथा
उत्पत्तिर्नन्दिनाम्ना तु देवदेवस्य शूलिनः पतिव्रतायाश्चाख्यानं पशुपाशविचारणा
प्रवृत्तिलक्षणं ज्ञानं निवृत्त्यधिकृता तथा वसिष्ठतनयोत्पत्तिर् वासिष्ठानां महात्मनाम्
मुनीनां वंशविस्तारो राज्ञां शक्तेर्विनाशनम् दौरात्म्यं कौशिकस्याथ सुरभेर्बन्धनं तथा
सुतशोको वसिष्ठस्य अरुन्धत्याः प्रलापनम् स्नुषायाः प्रेषणं चैव गर्भस्थस्य वचस् तथा
पराशरस्यावतारो व्यासस्य च शुकस्य च विनाशो राक्षसानां च कृतो वै शक्तिसूनुना
देवतापरमार्थं तु विज्ञानं च प्रसादतः पुराणकरणं चैव पुलस्त्यस्याज्ञया गुरोः
भुवनानां प्रमाणं च ग्रहाणां ज्योतिषां गतिः जीवच्छ्राद्धविधानं च श्राद्धार्हाः श्राद्धमेव च
नान्दीश्राद्धविधानं च तथाध्ययनलक्षणम् पञ्चयज्ञप्रभावश् च पञ्चयज्ञविधिस् तथा
रजस्वलानां वृत्तिश् च वृत्त्या पुत्रविशिष्टता मैथुनस्य विधिश्चैव प्रतिवर्णमनुक्रमात्
भोज्याभोज्यविधानं च सर्वेषामेव वर्णिनाम् प्रायश्चित्तम् अशेषस्य प्रत्येकं चैव विस्तरात्
नरकाणां स्वरूपं च दण्डः कर्मानुरूपतः स्वर्गिनारकिणां पुंसां चिह्नं जन्मान्तरेषु च
नानाविधानि दानानि प्रेतराजपुरं तथा कल्पं पञ्चाक्षरस्याथ रुद्रमाहात्म्यमेव च
वृत्रेन्द्रयोर्महायुद्धं विश्वरूपविमर्दनम् श्वेतस्य मृत्योः संवादः श्वेतार्थे कालनाशनम्
देवदारुवने शम्भोः प्रवेशः शंकरस्य तु सुदर्शनस्य चाख्यानं क्रमसंन्यासलक्षणम्
श्रद्धासाध्यो ऽथ रुद्रस्तु कथितं ब्रह्मणा तदा मधुना कैटभेनैव पुरा हृतगतेर्विभोः
ब्रह्मणः परमं ज्ञानम् आदातुं मीनता हरेः सर्वावस्थासु विष्णोश् च जननं लीलयैव तु
रुद्रप्रसादाद्विष्णोश् च जिष्णोश्चैव तु सम्भवः मन्थानधारणार्थाय हरेः कूर्मत्वमेवच
संकर्षणस्य चोत्पत्तिः कौशिक्याश् च पुनर्भवः यदूनां चैव सम्भूतिर् यादवत्वं हरेः स्वयम्
भोजराजस्य दौरात्म्यं मातुलस्य हरेर्विभोः बालभावे हरेः क्रीडा पुत्रार्थं शंकरार्चनम्
नारस्य च तथोत्पत्तिः कपाले वैष्णवाद्धरात् भूभारनिग्रहार्थे तु रुद्रस्याराधनं हरेः
वैन्येन पृथुना भूमेः पुरा दोहप्रवर्तनम् देवासुरे पुरा लब्धो भृगुशापश् च विष्णुना
कृष्णत्वे द्वारकायां तु निलयो माधवस्य तु लब्धो हिताय शापस्तु दुर्वासस्याननाद्धरेः