एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ततो मयः स्वतपसा चक्रे वीरः पुराण्यथ
काञ्चनं दिवि तत्रासीद् अन्तरिक्षे च राजतम् आयसं चाभवद् भूमौ पुरं तेषां महात्मनाम्
एकैकं योजनशतं विस्तारायामतः समम् काञ्चनं तारकाक्षस्य कमलाक्षस्य राजतम्
विद्युन्मालेश्चायसं वै त्रिविधं दुर्गमुत्तमम् मयश् च बलवांस्तत्र दैत्यदानवपूजितः
हैरण्ये राजते चैव कृष्णायसमये तथा आलयं चात्मनः कृत्वा तत्रास्ते बलवांस्तदा
एवं बभूवुर्दैत्यानाम् अतिदुर्गाणि सुव्रताः पुराणि त्रीणि विप्रेन्द्रास् त्रैलोक्यमिव चापरम्
पुरत्रये तदा जाते सर्वे दैत्या जगत्त्रये पुरत्रयं प्रविश्यैव बभूवुस्ते बलाधिकाः
कल्पद्रुमसमाकीर्णं गजवाजिसमाकुलम् नानाप्रसादसंकीर्णं मणिजालैः समावृतम्
सूर्यमण्डलसंकाशैर् विमानैर्विश्वतोमुखैः पद्मरागमयैः शुभ्रैः शोभितं चन्द्रसंनिभैः
प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः शोभितं त्रिपुरं तेषां पृथक्पृथगनुत्तमैः
दिव्यस्त्रीभिः सुसम्पूर्णं गन्धर्वैः सिद्धचारणैः रुद्रालयैः प्रतिगृहं साग्निहोत्रैर् द्विजोत्तमाः
वापीकूपतडागैश् च दीर्घिकाभिस्तु सर्वतः मत्तमातङ्गयूथैश् च तुरङ्गैश् च सुशोभनैः
रथैश् च विविधाकारैर् विचित्रैर्विश्वतोमुखैः सभाप्रपादिभिश् चैव क्रीडास्थानैः पृथक् पृथक्
वेदाध्ययनशालाभिर् विविधाभिः समन्ततः अधृष्यं मनसाप्यन्यैर् मयस्यैव च मायया
पतिव्रताभिः सर्वत्र सेवितं मुनिपुङ्गवाः कृत्वापि सुमहत् पापम् अपापैः शङ्करार्चनात्
दैत्येश्वरैर्महाभागैः सदारैः ससुतैर्द्विजाः श्रौतस्मार्तार्थधर्मज्ञैस् तद्धर्मनिरतैः सदा
महादेवेतरं त्यक्त्वा देवं तस्यार्चने स्थितैः व्यूढोरस्कैर् वृषस्कन्धैः सर्वायुधधरैः सदा
सर्वदा क्षुधितैश्चैव दावाग्निसदृशेक्षणैः प्रशान्तैः कुपितैश्चैव कुब्जैर् वामनकैस् तथा
नीलोत्पलदलप्रख्यैर् नीलकुञ्चितमूर्धजैः नीलाद्रिमेरुसंकाशैर् नीरदोपमनिःस्वनैः मयेन रक्षितैः सर्वैः शिक्षितैर्युद्धलालसैः
अथ समररतैः सदा समन्ताच् छिवपदपूजनया सुलब्धवीर्यैः रविमरुदमरेन्द्रसंनिकाशैः सुरमथनैः सुदृढैः सुसेवितं तत्
सेन्द्रा देवा द्विजश्रेष्ठा द्रुमा दावाग्निना यथा पुरत्रयाग्निना दग्धा ह्य् अभवन् दैत्यवैभवात्
अथैवं ते तदा दग्धा देवा देवेश्वरं हरिम् अभिवन्द्य तदा प्राहुस् तमप्रतिमवर्चसम्
सो ऽपि नारायणः श्रीमान् चिन्तयामास चेतसा किं कार्यं देवकार्येषु भगवानिति स प्रभुः
तदा सस्मार वै यज्ञं यज्ञमूर्तिर्जनार्दनः यज्वा यज्ञभुगीशानो यज्वनां फलदः प्रभुः
ततो यज्ञः स्मृतस्तेन देवकार्यार्थसिद्धये देवं ते पुरुषं चैव प्रणेमुस्तुष्टुवुस्तदा
भगवानपि तं दृष्ट्वा यज्ञं प्राह सनातनम् सनातनस्तदा सेन्द्रान् देवान् आलोक्य चाच्युतः
अनेनोपसदा देवा यजध्वं परमेश्वरम् पुरत्रयविनाशाय जगत्त्रयविभूतये
अथ तस्य वचः श्रुत्वा देवदेवस्य धीमतः सिंहनादं महत्कृत्वा यज्ञेशं तुष्टुवुः सुराः
ततः संचिन्त्य भगवान् स्वयमेव जनार्दनः पुनः प्राह स सर्वांस्तांस् त्रिदशांस्त्रिदशेश्वरः
हत्वा दग्ध्वा च भूतानि भुक्त्वा चान्यायतो ऽपि वा यजेद्यदि महादेवम् अपापो नात्र संशयः