निहते तारके दैत्ये तारपुत्रे सबान्धवे स्कन्देन वा प्रयत्नेन तस्य पुत्रा महाबलाः
विद्युन्माली तारकाक्षः कमलाक्षश् च वीर्यवान् तपस्तेपुर्महात्मानो महाबलपराक्रमाः
तप उग्रं समास्थाय नियमे परमे स्थिताः तपसा कर्शयामासुर् देहान् स्वान्दानवोत्तमाः
तेषां पितामहः प्रीतो वरदः प्रददौ वरम् अवध्यत्वं च सर्वेषां सर्वभूतेषु सर्वदा
सहिता वरयामासुः सर्वलोकपितामहम् तान् अब्रवीत् तदा देवो लोकानां प्रभुर् अव्ययः
नास्ति सर्वामरत्वं वै निवर्तध्वम् अतो ऽसुराः अन्यं वरं वृणीध्वं वै यादृशं सम्प्ररोचते
ततस्ते सहिता दैत्याः सम्प्रधार्य परस्परम् ब्रह्माणमब्रुवन्दैत्याः प्रणिपत्य जगद्गुरुम्
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् विचरिष्याम लोकेश त्वत्प्रसादाज्जगद्गुरो
तथा वर्षसहस्रेषु समेष्यामः परस्परम् एकीभावं गमिष्यन्ति पुराण्येतानि चानघ
समागतानि चैतानि यो हन्याद्भगवंस्तदा एकेनैवेषुणा देवः स नो मृत्युर्भविष्यति
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ततो मयः स्वतपसा चक्रे वीरः पुराण्यथ
काञ्चनं दिवि तत्रासीद् अन्तरिक्षे च राजतम् आयसं चाभवद् भूमौ पुरं तेषां महात्मनाम्
एकैकं योजनशतं विस्तारायामतः समम् काञ्चनं तारकाक्षस्य कमलाक्षस्य राजतम्
विद्युन्मालेश्चायसं वै त्रिविधं दुर्गमुत्तमम् मयश् च बलवांस्तत्र दैत्यदानवपूजितः
हैरण्ये राजते चैव कृष्णायसमये तथा आलयं चात्मनः कृत्वा तत्रास्ते बलवांस्तदा
एवं बभूवुर्दैत्यानाम् अतिदुर्गाणि सुव्रताः पुराणि त्रीणि विप्रेन्द्रास् त्रैलोक्यमिव चापरम्
पुरत्रये तदा जाते सर्वे दैत्या जगत्त्रये पुरत्रयं प्रविश्यैव बभूवुस्ते बलाधिकाः
कल्पद्रुमसमाकीर्णं गजवाजिसमाकुलम् नानाप्रसादसंकीर्णं मणिजालैः समावृतम्
सूर्यमण्डलसंकाशैर् विमानैर्विश्वतोमुखैः पद्मरागमयैः शुभ्रैः शोभितं चन्द्रसंनिभैः
प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः शोभितं त्रिपुरं तेषां पृथक्पृथगनुत्तमैः
दिव्यस्त्रीभिः सुसम्पूर्णं गन्धर्वैः सिद्धचारणैः रुद्रालयैः प्रतिगृहं साग्निहोत्रैर् द्विजोत्तमाः
वापीकूपतडागैश् च दीर्घिकाभिस्तु सर्वतः मत्तमातङ्गयूथैश् च तुरङ्गैश् च सुशोभनैः
रथैश् च विविधाकारैर् विचित्रैर्विश्वतोमुखैः सभाप्रपादिभिश् चैव क्रीडास्थानैः पृथक् पृथक्
वेदाध्ययनशालाभिर् विविधाभिः समन्ततः अधृष्यं मनसाप्यन्यैर् मयस्यैव च मायया
पतिव्रताभिः सर्वत्र सेवितं मुनिपुङ्गवाः कृत्वापि सुमहत् पापम् अपापैः शङ्करार्चनात्
दैत्येश्वरैर्महाभागैः सदारैः ससुतैर्द्विजाः श्रौतस्मार्तार्थधर्मज्ञैस् तद्धर्मनिरतैः सदा
महादेवेतरं त्यक्त्वा देवं तस्यार्चने स्थितैः व्यूढोरस्कैर् वृषस्कन्धैः सर्वायुधधरैः सदा
सर्वदा क्षुधितैश्चैव दावाग्निसदृशेक्षणैः प्रशान्तैः कुपितैश्चैव कुब्जैर् वामनकैस् तथा
नीलोत्पलदलप्रख्यैर् नीलकुञ्चितमूर्धजैः नीलाद्रिमेरुसंकाशैर् नीरदोपमनिःस्वनैः मयेन रक्षितैः सर्वैः शिक्षितैर्युद्धलालसैः
अथ समररतैः सदा समन्ताच् छिवपदपूजनया सुलब्धवीर्यैः रविमरुदमरेन्द्रसंनिकाशैः सुरमथनैः सुदृढैः सुसेवितं तत्