अनया देवदेवो ऽसौ सत्या रुद्रो महेश्वरः आतिष्ठत्सर्वलोकानां हिताय परमेश्वरः
रुद्रः पशुपतिश्चासीत् पुरा दग्धं पुरत्रयम् देवाश् च पशवः सर्वे बभूवुस्तस्य तेजसा
यः पठेच्छृणुयाद्वापि आदिसर्गक्रमं शुभम् स याति ब्रह्मणो लोकं श्रावयेद्वा द्विजोत्तमान्
समासाद् विस्तराच्चैव सर्गः प्रोक्तस्त्वया शुभः कथं पशुपतिश्चासीत् पुरं दग्धुं महेश्वरः
कथं च पशवश्चासन् देवाः सब्रह्मकाः प्रभोः मयस्य तपसा पूर्वं सुदुर्गं निर्मितं पुरम्
हैमं च राजतं दिव्यम् अयस्मयम् अनुत्तमम् सुदुर्गं देवदेवेन दग्धमित्येव नः श्रुतम्
कथं ददाह भगवान् भगनेत्रनिपातनः एकेनेषुनिपातेन दिव्येनापि तदा कथम्
विष्णुनोत्पादितैर्भूतैर् न दग्धं तत्पुरत्रयम् पुरस्य संभवः सर्वो वरलाभः पुरा श्रुतः
इदानीं दहनं सर्वं वक्तुमर्हसि सुव्रत तेषां तद्वचनं श्रुत्वा सूतः पौराणिकोत्तमः
यथा श्रुतं तथा प्राह व्यासाद् विश्वार्थसूचकात् त्रैलोक्यस्यास्य शापाद्धि मनोवाक्कायसंभवात्
निहते तारके दैत्ये तारपुत्रे सबान्धवे स्कन्देन वा प्रयत्नेन तस्य पुत्रा महाबलाः
विद्युन्माली तारकाक्षः कमलाक्षश् च वीर्यवान् तपस्तेपुर्महात्मानो महाबलपराक्रमाः
तप उग्रं समास्थाय नियमे परमे स्थिताः तपसा कर्शयामासुर् देहान् स्वान्दानवोत्तमाः
तेषां पितामहः प्रीतो वरदः प्रददौ वरम् अवध्यत्वं च सर्वेषां सर्वभूतेषु सर्वदा
सहिता वरयामासुः सर्वलोकपितामहम् तान् अब्रवीत् तदा देवो लोकानां प्रभुर् अव्ययः
नास्ति सर्वामरत्वं वै निवर्तध्वम् अतो ऽसुराः अन्यं वरं वृणीध्वं वै यादृशं सम्प्ररोचते
ततस्ते सहिता दैत्याः सम्प्रधार्य परस्परम् ब्रह्माणमब्रुवन्दैत्याः प्रणिपत्य जगद्गुरुम्
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् विचरिष्याम लोकेश त्वत्प्रसादाज्जगद्गुरो
तथा वर्षसहस्रेषु समेष्यामः परस्परम् एकीभावं गमिष्यन्ति पुराण्येतानि चानघ
समागतानि चैतानि यो हन्याद्भगवंस्तदा एकेनैवेषुणा देवः स नो मृत्युर्भविष्यति
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ततो मयः स्वतपसा चक्रे वीरः पुराण्यथ
काञ्चनं दिवि तत्रासीद् अन्तरिक्षे च राजतम् आयसं चाभवद् भूमौ पुरं तेषां महात्मनाम्
एकैकं योजनशतं विस्तारायामतः समम् काञ्चनं तारकाक्षस्य कमलाक्षस्य राजतम्
विद्युन्मालेश्चायसं वै त्रिविधं दुर्गमुत्तमम् मयश् च बलवांस्तत्र दैत्यदानवपूजितः
हैरण्ये राजते चैव कृष्णायसमये तथा आलयं चात्मनः कृत्वा तत्रास्ते बलवांस्तदा
एवं बभूवुर्दैत्यानाम् अतिदुर्गाणि सुव्रताः पुराणि त्रीणि विप्रेन्द्रास् त्रैलोक्यमिव चापरम्
पुरत्रये तदा जाते सर्वे दैत्या जगत्त्रये पुरत्रयं प्रविश्यैव बभूवुस्ते बलाधिकाः
कल्पद्रुमसमाकीर्णं गजवाजिसमाकुलम् नानाप्रसादसंकीर्णं मणिजालैः समावृतम्
सूर्यमण्डलसंकाशैर् विमानैर्विश्वतोमुखैः पद्मरागमयैः शुभ्रैः शोभितं चन्द्रसंनिभैः
प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः शोभितं त्रिपुरं तेषां पृथक्पृथगनुत्तमैः