अर्धनारीनरवपुस् तेजसा ज्वलनोपमः स्वेच्छयासौ द्विधाभूतः पृथक् स्त्री पुरुषः पृथक्
स एवैकादशार्धेन स्थितो ऽसौ परमेश्वरः तत्र या सा महाभागा शङ्करस्यार्धकायिनी
प्रागुक्ता तु महादेवी स्त्री सैवेह सती ह्यभूत् हिताय जगतां देवी दक्षेणाराधिता पुरा
कार्यार्थं दक्षिणं तस्याः शुक्लं वामं तथासितम् आत्मानं विभजस्वेति प्रोक्ता देवेन शंभुना
सा तथोक्ता द्विधाभूता शुक्ला कृष्णा च वै द्विजाः तस्या नामानि वक्ष्यामि शृण्वन्तु च समाहिताः
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती सती दाक्षायणी विद्या इच्छाशक्तिः क्रियात्मिका
अपर्णा चैकपर्णा च तथा चैवैकपाटला उमा हैमवती चैव कल्याणी चैकमातृका
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता गणांबिका महादेवी नन्दिनी जातवेदसी
एकरूपमथैतस्याः पृथग्देहविभावनात् सावित्री वरदा पुण्या पावनी लोकविश्रुता
आज्ञा आवेशनी कृष्णा तामसी सात्त्विकी शिवा प्रकृतिर्विकृता रौद्री दुर्गा भद्रा प्रमाथिनी
कालरात्रिर्महामाया रेवती भूतनायिका द्वापरान्तविभागे च नामानीमानि सुव्रताः
गौतमी कौशिकी चार्या चण्डी कात्यायनी सती कुमारी यादवी देवी वरदा कृष्णपिङ्गला
बर्हिध्वजा शूलधरा परमा ब्रह्मचारिणी महेन्द्रोपेन्द्रभगिनी दृषद्वत्य् एकशूलधृक्
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी शुम्भादिदैत्यहन्त्री च महामहिषमर्दिनी
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका देव्या नामविकाराणि इत्येतानि यथाक्रमम्
भद्रकाल्या मयोक्तानि सम्यक्फलप्रदानि च ये पठन्ति नरास्तेषां विद्यते न च पातकम्
अरण्ये पर्वते वापि पुरे वाप्यथवा गृहे रक्षामेतां प्रयुञ्जीत जले वाथ स्थले ऽपि वा
व्याघ्रकुम्भीनचोरेभ्यो भयस्थाने विशेषतः आपत्स्वपि च सर्वासु देव्या नामानि कीर्तयेत्
आर्यकग्रहभूतैश् च पूतनामातृभिस् तथा अभ्यर्दितानां बालानां रक्षामेतां प्रयोजयेत्
महादेवीकले द्वे तु प्रज्ञा श्रीश् च प्रकीर्तिते आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत्
अनया देवदेवो ऽसौ सत्या रुद्रो महेश्वरः आतिष्ठत्सर्वलोकानां हिताय परमेश्वरः
रुद्रः पशुपतिश्चासीत् पुरा दग्धं पुरत्रयम् देवाश् च पशवः सर्वे बभूवुस्तस्य तेजसा
यः पठेच्छृणुयाद्वापि आदिसर्गक्रमं शुभम् स याति ब्रह्मणो लोकं श्रावयेद्वा द्विजोत्तमान्
समासाद् विस्तराच्चैव सर्गः प्रोक्तस्त्वया शुभः कथं पशुपतिश्चासीत् पुरं दग्धुं महेश्वरः
कथं च पशवश्चासन् देवाः सब्रह्मकाः प्रभोः मयस्य तपसा पूर्वं सुदुर्गं निर्मितं पुरम्
हैमं च राजतं दिव्यम् अयस्मयम् अनुत्तमम् सुदुर्गं देवदेवेन दग्धमित्येव नः श्रुतम्
कथं ददाह भगवान् भगनेत्रनिपातनः एकेनेषुनिपातेन दिव्येनापि तदा कथम्
विष्णुनोत्पादितैर्भूतैर् न दग्धं तत्पुरत्रयम् पुरस्य संभवः सर्वो वरलाभः पुरा श्रुतः
इदानीं दहनं सर्वं वक्तुमर्हसि सुव्रत तेषां तद्वचनं श्रुत्वा सूतः पौराणिकोत्तमः
यथा श्रुतं तथा प्राह व्यासाद् विश्वार्थसूचकात् त्रैलोक्यस्यास्य शापाद्धि मनोवाक्कायसंभवात्