अन्याः सृज त्वं भद्रं ते प्रजा वै मृत्युसंयुताः नारप्स्यन्ते हि कर्माणि प्रजावगतमृत्यवः
एवमुक्तो ऽब्रवीदेनं नाहं मृत्युजरान्विताः प्रजाः स्रक्ष्यामि भद्रं ते स्थितो ऽहं त्वं सृज प्रजाः
एते ये वै मया सृष्टा विरूपा नीललोहिताः सहस्राणां सहस्रं तु आत्मनो निःसृताः प्रजाः
एते देवा भविष्यन्ति रुद्रा नाम महाबलाः पृथिव्यामन्तरिक्षे च दिक्षु चैव परिश्रिताः
शतरुद्राः समात्मानो भविष्यन्तीति याज्ञिकाः यज्ञभाजो भविष्यन्ति सर्वदेवगणैः सह
मन्वन्तरेषु ये देवा भविष्यन्तीह भेदतः सार्धं तैर् ईज्यमानास् ते स्थास्यन्तीह आ युगक्षयात्
एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता प्रत्युवाच नमस्कृत्य हृष्यमाणः प्रजापतिः
एवं भवतु भद्रं ते यथा ते व्याहृतं विभो ब्रह्मणा समनुज्ञाते तथा सर्वमभूत्किल
ततः प्रभृति देवेशो न चासूयत वै प्रजाः ऊर्ध्वरेताः स्थितः स्थाणुर् यावदाभूतसंप्लवम्
यस्मादुक्तः स्थितो ऽस्मीति तस्मात्स्थाणुरिति स्मृतः एष देवो महादेवः पुरुषो ऽर्कसमद्युतिः
अर्धनारीनरवपुस् तेजसा ज्वलनोपमः स्वेच्छयासौ द्विधाभूतः पृथक् स्त्री पुरुषः पृथक्
स एवैकादशार्धेन स्थितो ऽसौ परमेश्वरः तत्र या सा महाभागा शङ्करस्यार्धकायिनी
प्रागुक्ता तु महादेवी स्त्री सैवेह सती ह्यभूत् हिताय जगतां देवी दक्षेणाराधिता पुरा
कार्यार्थं दक्षिणं तस्याः शुक्लं वामं तथासितम् आत्मानं विभजस्वेति प्रोक्ता देवेन शंभुना
सा तथोक्ता द्विधाभूता शुक्ला कृष्णा च वै द्विजाः तस्या नामानि वक्ष्यामि शृण्वन्तु च समाहिताः
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती सती दाक्षायणी विद्या इच्छाशक्तिः क्रियात्मिका
अपर्णा चैकपर्णा च तथा चैवैकपाटला उमा हैमवती चैव कल्याणी चैकमातृका
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता गणांबिका महादेवी नन्दिनी जातवेदसी
एकरूपमथैतस्याः पृथग्देहविभावनात् सावित्री वरदा पुण्या पावनी लोकविश्रुता
आज्ञा आवेशनी कृष्णा तामसी सात्त्विकी शिवा प्रकृतिर्विकृता रौद्री दुर्गा भद्रा प्रमाथिनी
कालरात्रिर्महामाया रेवती भूतनायिका द्वापरान्तविभागे च नामानीमानि सुव्रताः
गौतमी कौशिकी चार्या चण्डी कात्यायनी सती कुमारी यादवी देवी वरदा कृष्णपिङ्गला
बर्हिध्वजा शूलधरा परमा ब्रह्मचारिणी महेन्द्रोपेन्द्रभगिनी दृषद्वत्य् एकशूलधृक्
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी शुम्भादिदैत्यहन्त्री च महामहिषमर्दिनी
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका देव्या नामविकाराणि इत्येतानि यथाक्रमम्
भद्रकाल्या मयोक्तानि सम्यक्फलप्रदानि च ये पठन्ति नरास्तेषां विद्यते न च पातकम्
अरण्ये पर्वते वापि पुरे वाप्यथवा गृहे रक्षामेतां प्रयुञ्जीत जले वाथ स्थले ऽपि वा
व्याघ्रकुम्भीनचोरेभ्यो भयस्थाने विशेषतः आपत्स्वपि च सर्वासु देव्या नामानि कीर्तयेत्
आर्यकग्रहभूतैश् च पूतनामातृभिस् तथा अभ्यर्दितानां बालानां रक्षामेतां प्रयोजयेत्
महादेवीकले द्वे तु प्रज्ञा श्रीश् च प्रकीर्तिते आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत्