बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः
दाराण्येतानि वै तस्य विहितानि स्वयंभुवा ताभ्यः शिष्टायवीयस्य एकादश सुलोचनाः
सती ख्यात्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा संनतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
तास् तथा प्रत्यपद्यन्त पुनरन्ये महर्षयः रुद्रो भृगुर् मरीचिश् च अङ्गिराः पुलहः क्रतुः
पुलस्त्यो ऽत्रिर् वसिष्ठश् च पितरो ऽग्निस्तथैव च सतीं भवाय प्रायच्छत् ख्यातिं च भृगवे ततः
मरीचये च संभूतिं स्मृतिमङ्गिरसे ददौ प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च
क्रतवे संनतिं नाम अनसूयां तथात्रये ऊर्जां ददौ वसिष्ठाय स्वाहामप्यग्नये ददौ
स्वधां चैव पितृभ्यस्तु तास्वपत्या निबोधत एताः सर्वा महाभागाः प्रजास्वनुसृताः स्थिताः
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः
धृत्यास्तु नियमः पुत्रस् तुष्ट्याः संतोष एव च पुष्ट्या लोभः सुतश्चापि मेधापुत्रः श्रुतस् तथा
क्रियायामभवत्पुत्रो दण्डः समय एव च बुद्ध्यां बोधः सुतस् तद्वत् प्रमादो ऽप्युपजायत
लज्जायां विनयः पुत्रो व्यवसायो वसोः सुतः क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत
यशः कीर्तिसुतश्चापि इत्येते धर्मसूनवः कामस्य हर्षः पुत्रो वै देव्यां प्रीत्यां व्यजायत
इत्येष वै सुतोदर्कः सर्गो धर्मस्य कीर्तितः जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं सुतम्
निकृत्यां तु द्वयं जज्ञे भयं नरक एव च माया च वेदना चापि मिथुनद्वयमेतयोः
भूयो जज्ञे ऽथ वै माया मृत्युं भूतापहारिणम् वेदनायाः सुतश्चापि दुःखं जज्ञे च रौरवः
मृत्योर् व्याधिजराशोकक्रोधासूयाश् च जज्ञिरे दुःखोत्तराः सुता ह्येते सर्वे चाधर्मलक्षणाः
नैषां भार्यास्तु पुत्राश् च सर्वे ह्येते परिग्रहाः इत्येष तामसः सर्गो जज्ञे धर्मनियामकः
प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीललोहितः सो ऽभिध्याय सतीं भार्यां निर्ममे ह्यात्मसंभवान्
नाधिकान्न च हीनांस्तान् मानसानात्मनः समान् सहस्रं हि सहस्राणां सो ऽसृजत् कृत्तिवाससः
तुल्यानेवात्मनः सर्वान् रूपतेजोबलश्रुतैः पिङ्गलान्सनिषङ्गांश् च सकपर्दान्सलोहितान्
विशिष्टान् हरिकेशांश् च दृष्टिघ्नांश् च कपालिनः महारूपान्विरूपांश् च विश्वरूपान् स्वरूपिणः
रथिनश्चर्मिणश्चैव वर्मिणश् च वरूथिनः सहस्रशतबाहूंश् च दिव्यान् भौमान्तरिक्षगान्
स्थूलशीर्षान् अष्टदंष्ट्रान् द्विजिह्वांस् तांस् त्रिलोचनान् अन्नादान् पिशिताशांश् च आज्यपान्सोमपानपि
मीढुषो ऽतिकपालांश् च शितिकण्ठोर्ध्वरेतसः हव्यादाञ्छ्रुतधर्मांश् च धर्मिणो ह्यथ बर्हिणः
आसीनान्धावतश्चैव पञ्चभूतान्सहस्रशः अध्यापिनो ऽध्यायिनश् च जपतो युञ्जतस् तथा
धूमवन्तो ज्वलन्तश् च नदीमन्तो ऽतिदीप्तिनः वृद्धान्बुद्धिमतश्चैव ब्रह्मिष्ठाञ्शुभदर्शनान्
नीलग्रीवान् सहस्राक्षान् सर्वांश्चाथ क्षमाकरान् अदृश्यान्सर्वभूतानां महायोगान्महौजसः
भ्रमन्तो ऽभिद्रवन्तश् च प्लवन्तश् च सहस्रशः अयातयामान् असृजद् रुद्रानेतान् सुरोत्तमान्
ब्रह्मा दृष्ट्वाब्रवीदेनं मास्राक्षीरीदृशीः प्रजाः स्रष्टव्या नात्मनस्तुल्याः प्रजा देव नमो ऽस्तु ते