वैराजात्पुरुषाद् वीराच् छतरूपा व्यजायत प्रियव्रतोत्तानपादौ पुत्रौ द्वौ लोकसंमतौ
कन्ये द्वे च महाभागे याभ्यां जाता इमाः प्रजाः देवी नाम तथाकूतिः प्रसूतिश्चैव ते उभे
स्वायंभुवः प्रसूतिं तु दक्षाय प्रददौ प्रभुः प्राणो दक्ष इति ज्ञेयः संकल्पो मनुरुच्यते
रुचेः प्रजापतेः सो ऽथ आकूतिं प्रत्यपादयत् आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम्
यज्ञश् च दक्षिणा चैव यमलौ संबभूवतुः यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे
यामा इति समाख्याता देवाः स्वायंभुवे ऽन्तरे एतस्य पुत्रा यज्ञस्य तस्माद्यामाश् च ते स्मृताः
अजितश्चैव शुक्रश् च गणौ द्वौ ब्रह्मणा कृतौ यामाः पूर्वं प्रजाता ये ते ऽभवंस्तु दिवौकसः
स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः तस्यां कन्याश्चतुर्विंशद् दक्षस् त्वजनयत् प्रभुः
सर्वास्ताश् च महाभागाः सर्वाः कमललोचनाः भोगवत्यश् च ताः सर्वाः सर्वास्ता योगमातरः
सर्वाश् च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः
दाराण्येतानि वै तस्य विहितानि स्वयंभुवा ताभ्यः शिष्टायवीयस्य एकादश सुलोचनाः
सती ख्यात्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा संनतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
तास् तथा प्रत्यपद्यन्त पुनरन्ये महर्षयः रुद्रो भृगुर् मरीचिश् च अङ्गिराः पुलहः क्रतुः
पुलस्त्यो ऽत्रिर् वसिष्ठश् च पितरो ऽग्निस्तथैव च सतीं भवाय प्रायच्छत् ख्यातिं च भृगवे ततः
मरीचये च संभूतिं स्मृतिमङ्गिरसे ददौ प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च
क्रतवे संनतिं नाम अनसूयां तथात्रये ऊर्जां ददौ वसिष्ठाय स्वाहामप्यग्नये ददौ
स्वधां चैव पितृभ्यस्तु तास्वपत्या निबोधत एताः सर्वा महाभागाः प्रजास्वनुसृताः स्थिताः
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः
धृत्यास्तु नियमः पुत्रस् तुष्ट्याः संतोष एव च पुष्ट्या लोभः सुतश्चापि मेधापुत्रः श्रुतस् तथा
क्रियायामभवत्पुत्रो दण्डः समय एव च बुद्ध्यां बोधः सुतस् तद्वत् प्रमादो ऽप्युपजायत
लज्जायां विनयः पुत्रो व्यवसायो वसोः सुतः क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत
यशः कीर्तिसुतश्चापि इत्येते धर्मसूनवः कामस्य हर्षः पुत्रो वै देव्यां प्रीत्यां व्यजायत
इत्येष वै सुतोदर्कः सर्गो धर्मस्य कीर्तितः जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं सुतम्
निकृत्यां तु द्वयं जज्ञे भयं नरक एव च माया च वेदना चापि मिथुनद्वयमेतयोः
भूयो जज्ञे ऽथ वै माया मृत्युं भूतापहारिणम् वेदनायाः सुतश्चापि दुःखं जज्ञे च रौरवः
मृत्योर् व्याधिजराशोकक्रोधासूयाश् च जज्ञिरे दुःखोत्तराः सुता ह्येते सर्वे चाधर्मलक्षणाः
नैषां भार्यास्तु पुत्राश् च सर्वे ह्येते परिग्रहाः इत्येष तामसः सर्गो जज्ञे धर्मनियामकः
प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीललोहितः सो ऽभिध्याय सतीं भार्यां निर्ममे ह्यात्मसंभवान्
नाधिकान्न च हीनांस्तान् मानसानात्मनः समान् सहस्रं हि सहस्राणां सो ऽसृजत् कृत्तिवाससः