दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः
न चैकं न पृथग्भावम् अधिकं न ततो विदुः एतदेवं च नैकं च नामभेदेन नाप्युभे
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शनाः नाम रूपं च भूतानां कृतानां च प्रपञ्चनम्
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ऋषीणां नामधेयानि याश् च वेदेषु वृत्तयः
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः एवंविधाः सृष्टयस्तु ब्रह्मणो ऽव्यक्तजन्मनः
शर्वर्यन्ते प्रदृश्यन्ते सिद्धिमाश्रित्य मानसीम् एवंभूतानि सृष्टानि स्थावराणि चराणि च
यदास्य ताः प्रजाः सृष्टा न व्यवर्धन्त सत्तमाः तमोमात्रावृतो ब्रह्मा तदा शोकेन दुःखितः
ततः स विदधे बुद्धिम् अर्थनिश्चयगामिनीम् अथात्मनि समद्राक्षीत् तमोमात्रां नियामिकाम्
रजःसत्त्वं परित्यज्य वर्तमानां स्वधर्मतः ततः स तेन दुःखेन दुःखं चक्रे जगत्पतिः
तमश् च व्यनुदत्पश्चाद् रजः सत्त्वं तमावृणोत् तत्तमः प्रतिनुन्नं वै मिथुनं समजायत
अधर्मस्तमसो जज्ञे हिंसा शोकादजायत ततस्तस्मिन्समुद्भूते मिथुने दारुणात्मिके
गतासुर् भगवान् आसीत् प्रीतिश् चैनम् अशिश्रियत् स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम्
द्विधा कृत्वा स्वकं देहम् अर्धेन पुरुषो ऽभवत् अर्धेन नारी सा तस्य शतरूपा व्यजायत
प्रकृतिं भूतधात्रीं तां कामाद्वै सृष्टवान्प्रभुः सा दिवं पृथिवीं चैव महिम्ना व्याप्यधिष्ठिता
ब्रह्मणः सा तनुः पूर्वा दिवमावृत्य तिष्ठति या त्वर्धात्सृजतो नारी शतरूपा व्यजायत
सा देवी नियुतं तप्त्वा तपः परमदुश्चरम् भर्तारं दीप्तयशसं पुरुषं प्रत्यपद्यत
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते तस्यैव सप्ततियुगं मन्वन्तरमिहोच्यते
लेभे स पुरुषः पत्नीं शतरूपाम् अयोनिजाम् तया सार्धं स रमते तस्मात्सा रतिरुच्यते
प्रथमः संप्रयोगात्मा कल्पादौ समपद्यत विराजम् असृजद् ब्रह्मा सो ऽभवत् पुरुषो विराट्
सम्राट् च शतरूपा वै वैराजः स मनुः स्मृतः स वैराजः प्रजासर्गं ससर्ज पुरुषो मनुः
वैराजात्पुरुषाद् वीराच् छतरूपा व्यजायत प्रियव्रतोत्तानपादौ पुत्रौ द्वौ लोकसंमतौ
कन्ये द्वे च महाभागे याभ्यां जाता इमाः प्रजाः देवी नाम तथाकूतिः प्रसूतिश्चैव ते उभे
स्वायंभुवः प्रसूतिं तु दक्षाय प्रददौ प्रभुः प्राणो दक्ष इति ज्ञेयः संकल्पो मनुरुच्यते
रुचेः प्रजापतेः सो ऽथ आकूतिं प्रत्यपादयत् आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम्
यज्ञश् च दक्षिणा चैव यमलौ संबभूवतुः यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे
यामा इति समाख्याता देवाः स्वायंभुवे ऽन्तरे एतस्य पुत्रा यज्ञस्य तस्माद्यामाश् च ते स्मृताः
अजितश्चैव शुक्रश् च गणौ द्वौ ब्रह्मणा कृतौ यामाः पूर्वं प्रजाता ये ते ऽभवंस्तु दिवौकसः
स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः तस्यां कन्याश्चतुर्विंशद् दक्षस् त्वजनयत् प्रभुः
सर्वास्ताश् च महाभागाः सर्वाः कमललोचनाः भोगवत्यश् च ताः सर्वाः सर्वास्ता योगमातरः
सर्वाश् च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा