तेन सृष्टाः क्षुधात्मानो अंभांस्यादातुम् उद्यताः अम्भांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये
राक्षसा नाम ते यस्मात् क्षुधाविष्टा निशाचराः ये ऽब्रुवन् यक्षमो ऽम्भांसि तेषां हृष्टाः परस्परम्
तेन ते कर्मणा यक्षा गुह्यका गूढकर्मणा रक्षेति पालने चापि धातुरेष विभाष्यते
एवं च यक्षतिर् धातुर् भक्षणे स निरुच्यते तं दृष्ट्वा ह्यप्रियेणास्य केशाः शीर्णास्तु धीमतः
ते शीर्णाश्चोत्थिता ह्यूर्ध्वं ते चैवारुरुधुः प्रभुम् हीनास्तच्छिरसो वाला यस्माच्चैवावसर्पिणः
व्यालात्मानः स्मृता वाला हीनत्वादहयः स्मृताः पतत्वात्पन्नगाश्चैव सर्पाश्चैवावसर्पणात्
तस्य क्रोधोद्भवो यो ऽसौ अग्निगर्भः सुदारुणः स तु सर्पान् सहोत्पन्नान् आविवेश विषात्मकः
सर्पान्सृष्ट्वा ततः क्रुद्धः क्रोधात्मानो विनिर्ममे वर्णेन कपिशेनोग्रास् ते भूताः पिशिताशनाः
भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात् प्रसन्नं गायतस्तस्य गन्धर्वा जज्ञिरे यदा
धयतीत्येष वै धातुः पानत्वे परिपठ्यते धयन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते स्मृताः
अष्टस्वेतासु सृष्टासु देवयोनिषु स प्रभुः ततः स्वच्छन्दतो ऽन्यानि वयांसि वयसासृजत्
स्वच्छन्दतः स्वच्छन्दांसि वयसा च वयांसि च पशून्सृष्ट्वा स देवेशो ऽसृजत्पक्षिगणानपि
मुखतो ऽजाः ससर्जाथ वक्षसश् चावयो ऽसृजत् गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्यां च विनिर्ममे
पद्भ्यां चाश्वान् समातङ्गान् रासभान् आवयान् मृगान् उष्ट्रानश्वतरांश्चैव तथान्याश्चैव जातयः
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे एवं पश्वोषधीः सृष्ट्वा यूयुजत् सो ऽध्वरे प्रभुः
गौरजः पूरुषो मेषो ह्य् अश्वो ऽश्वतरगर्दभौ एतान्ग्राम्यान्पशूनाहुर् आरण्यान्वै निबोधत
श्वापदो द्विखुरो हस्ती वानराः पक्षिपञ्चमाः औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः
महिषा गवयाक्षाश् च प्लवंगाः शरभा वृकाः सिंहस्तु सप्तमस्तेषाम् आरण्याः पशवः स्मृताः
गायत्रं च ऋचं चैव त्रिवृत्सामरथंतरम् अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान् मुखात्
यजूंषि त्रैष्टुभं छन्दस्तोमं पञ्चदशं तथा बृहत्साम तथोक्थ्यं च दक्षिणादसृजन्मुखात्
सामानि जगतीछन्दस्तोमं सप्तदशं तथा वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्
एकविंशमथर्वाणम् आप्तोर्यामाणम् एव च अनुष्टुभं सवैराजम् उत्तरादसृजन्मुखात्
विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च तेजांसि च ससर्जादौ कल्पस्य भगवान्प्रभुः
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः
सृष्ट्वा चतुष्टयं पूर्वं देवासुरनरान्पितॄन् ततो ऽसृजत् स भूतानि स्थावराणि चराणि च
यक्षान्पिशाचान् गन्धर्वांस् त्व् अथैवाप्सरसां गणान् नरकिन्नररक्षांसि वयःपशुमृगोरगान्
अव्ययं च व्ययं चापि यदिदं स्थाणुजङ्गमम् तेषां वै यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे नृतानृते
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते महाभूतेषु सृष्टेषु इन्द्रियार्थेषु मूर्तिषु
विनियोगं च भूतानां धातैव व्यदधात् स्वयम् केचित्पुरुषकारं तु प्राहुः कर्म सुमानवाः