तस्मात्सनत्कुमारेति नामास्येह प्रतिष्ठितम् ततो ऽभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमतः
ततो देवासुरपितॄन् मानुषांश् च चतुष्टयम् सिसृक्षुर् अम्भांस्येतानि स्वम् आत्मानम् अयूयुजत्
ततस्तु युञ्जतस्तस्य तमोमात्रसमुद्भवम् समभिध्यायतः सर्गं प्रयत्नेन प्रजापतेः
ततो ऽस्य जघनात्पूर्वम् असुरा जज्ञिरे सुताः असुः प्राणः स्मृतो विप्रास् तज्जन्मानस् ततो ऽसुराः
यया सृष्टासुराः सर्वे तां तनुं स व्यपोहत सापविद्धा तनुस् तेन सद्यो रात्रिर् अजायत
सा तमोबहुला यस्मात् ततो रात्रिर्नियामिका आवृतास्तमसा रात्रौ प्रजास्तस्मात्स्वपन्त्युत
सृष्ट्वासुरांस्ततः सो वै तनुमन्यामगृह्णत अव्यक्तां सत्त्वबहुलां ततस्तां सो ऽभ्यपूजयत्
ततस्तां युञ्जतस् तस्य प्रियम् आसीत् प्रजापतेः ततो मुखात्समुत्पन्ना दीव्यतस्तस्य देवताः
यतो ऽस्य दीव्यतो जातास् तेन देवाः प्रकीर्तिताः धातुर्दिविति यः प्रोक्तः क्रीडायां स विभाव्यते
यस्मात्तस्य तु दीव्यन्तो जज्ञिरे तेन देवताः देवान्सृष्ट्वाथ देवेशस् तनुमन्यामपद्यत
उत्सृष्टा सा तनुस्तेन सद्यो ऽहः समजायत तस्मादहो धर्मयुक्तं देवताः समुपासते
सत्त्वमात्रात्मिकामेव ततो ऽन्यां सो ऽभ्यमन्यत पितृवन्मन्यमानस्य पुत्रांस्तान्ध्यायतः प्रभोः
पितरो ह्युपपक्षाभ्यां रात्र्यह्णोर् अन्तरे ऽभवन् तस्मात्ते पितरो देवाः पितृत्वं तेन तेषु तत्
यया सृष्टास्तु पितरस् तनुं तां स व्यपोहत सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत
यस्मादहर्देवतानां रात्रिर्या सासुरी स्मृता तयोर्मध्ये तु पैत्री या तनुः सा तु गरीयसी
तस्माद्देवा सुराः सर्वे ऋषयो मानवास् तथा उपासन्ते मुदायुक्ता रात्र्यह्णोर् मध्यमां तनुम्
ततो ह्यन्यां पुनर्ब्रह्मा तनुं वै समगृह्णत रजोमात्रात्मिकायां तु मनसा सो ऽसृजत्प्रभुः
रजःप्रियांस्ततः सो ऽथ मानसानसृजत्सुतान् मनस्विनस्ततस्तस्य मानवा जज्ञिरे सुताः
सृष्ट्वा पुनः प्रजाश्चापि स्वां तनुं ताम् अपोहत सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत
यस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः इत्येतास्तनवस्तेन ह्य् अपविद्धा महात्मना
सद्यो रात्र्यहनी चैव संध्या ज्योत्स्ना च जज्ञिरे ज्योत्स्ना संध्या अहश्चैव सत्त्वमात्रात्मकं त्रयम्
तमोमात्रात्मिका रात्रिः सा वै तस्मान्निशात्मिका तस्माद्देवा दिवातन्वा तुष्ट्या सृष्टा मुखात्तु वै
यस्मात्तेषां दिवा जन्म बलिनस्तेन वै दिवा तन्वा ययासुरान् रात्रौ जघनादसृजत्प्रभुः
प्राणेभ्यो निशिजन्मानो बलिनो निशि तेन ते एतान्येव भविष्याणां देवानामसुरैः सह
पितॄणां मानवानां च अतीतानागतेषु वै मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्यंभांसि तानि वै भान्ति यस्मात् ततो ऽंभांसि शब्दो ऽयं सुमनीषिभिः
भातिर्दीप्तौ निगदितः पुनश्चाथ प्रजापतिः सो ऽम्भांस्येतानि सृष्ट्वा तु देवमानुषदानवान्
पितॄंश्चैव सृजत्तन्वा आत्मना विविधान्पुनः तामुत्सृज्य तनुं ज्योत्स्नां ततो ऽन्यां प्राप्य स प्रभुः
मूर्तिं तमोरजःप्रायां पुनरेवाभ्यपूजयत् अन्धकारे क्षुधाविष्टांस् ततो ऽन्यान् सो ऽसृजत् प्रभुः