नागः कूर्मस्तु कृकलो देवदत्तो धनंजयः एतेषां यः प्रसादस्तु मरुतामिति संस्मृतः
प्रयाणं कुरुते तस्माद् वायुः प्राण इति स्मृतः अपानयत्यपानस्तु आहारादीन् क्रमेण च
व्यानो व्यानामयत्यङ्गं व्याध्यादीनां प्रकोपकः उद्वेजयति मर्माणि उदानो ऽयं प्रकीर्तितः
समं नयति गात्राणि समानः पञ्च वायवः उद्गारे नाग आख्यातः कूर्म उन्मीलने तु सः
कृकलः क्षुतकायैव देवदत्तो विजृम्भणे धनंजयो महाघोषः सर्वगः स मृते ऽपि हि
इति यो दशवायूनां प्राणायामेन सिध्यति प्रसादो ऽस्य तुरीया तु संज्ञा विप्राश्चतुष्टये
विस्वरस्तु महान् प्रज्ञो मनो ब्रह्मा चितिः स्मृतिः ख्यातिः संवित्ततः पश्चाद् ईश्वरो मतिरेव च
बुद्धेरेताः द्विजाः संज्ञा महतः परिकीर्तिताः अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिध्यति
विस्वरो विस्वरीभावो द्वंद्वानां मुनिसत्तमाः अग्रजः सर्वतत्त्वानां महान्यः परिमाणतः
यत्प्रमाणगुहा प्रज्ञा मनस्तु मनुते यतः बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मा ब्रह्मविदांवराः
सर्वकर्माणि भोगार्थं यच्चिनोति चितिः स्मृता स्मरते यत्स्मृतिः सर्वं संविद्वै विन्दते यतः
ख्यायते यत्त्विति ख्यातिर् ज्ञानादिभिर् अनेकशः सर्वतत्त्वाधिपः सर्वं विजानाति यदीश्वरः
मनुते मन्यते यस्मान् मतिर्मतिमतांवराः अर्थं बोधयते यच्च बुध्यते बुद्धिरुच्यते
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिध्यति दोषान्विनिर्दहेत्सर्वान् प्राणायामादसौ यमी
पातकं धारणाभिस्तु प्रत्याहारेण निर्दहेत् विषयान्विषवद्ध्यात्वा ध्यानेनानीश्वरान् गुणान्
समाधिना यतिश्रेष्ठाः प्रज्ञावृद्धिं विवर्धयेत् स्थानं लब्ध्वैव कुर्वीत योगाष्टाङ्गानि वै क्रमात्
लब्ध्वासनानि विधिवद् योगसिद्ध्यर्थम् आत्मवित् आदेशकाले योगस्य दर्शनं हि न विद्यते
अग्न्यभ्यासे जले वापि शुष्कपर्णचये तथा जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे
सशब्दे सभये वापि चैत्यवल्मीकसंचये अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते
नाचरेद्देहबाधायां दौर्मनस्यादिसम्भवे सुगुप्ते तु शुभे रम्ये गुहायां पर्वतस्य तु
भवक्षेत्रे सुगुप्ते वा भवारामे वने ऽपि वा गृहे तु सुशुभे देशे विजने जन्तुवर्जिते
अत्यन्तनिर्मले सम्यक् सुप्रलिप्ते विचित्रिते दर्पणोदरसंकाशे कृष्णागरुसुधूपिते
नानापुष्पसमाकीर्णे वितानोपरि शोभिते फलपल्लवमूलाढ्ये कुशपुष्पसमन्विते
समासनस्थो योगाङ्गान्य् अभ्यसेद्धृषितः स्वयम् प्रणिपत्य गुरुं पश्चाद् भवं देवीं विनायकम्
योगीश्वरान् सशिष्यांश् च योगं युञ्जीत योगवित् आसनं स्वस्तिकं बद्ध्वा पद्ममर्धासनं तु वा
समजानुस् तथा धीमान् एकजानुरथापिवा समं दृढासनो भूत्वा संहृत्य चरणावुभौ
संवृतास्योपबद्धाक्ष उरो विष्टभ्य चाग्रतः पार्ष्णिभ्यां वृषणौ रक्षंस् तथा प्रजननं पुनः
किंचिदुन्नामितशिर दन्तैर्दन्तान्न संस्पृशेत् सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्
तमः प्रच्छाद्य रजसा रजः सत्त्वेन छादयेत् ततः सत्त्वस्थितो भूत्वा शिवध्यानं समभ्यसेत्
ओंकारवाच्यं परमं शुद्धं दीपशिखाकृतिम् ध्यायेद्वै पुण्डरीकस्य कर्णिकायां समाहितः