यदाप्नोति यदादत्ते यच्चात्ति विषयानयम् यच्चास्य सततं भावस् तस्मादात्मा निरुच्यते
ऋषिः सर्वगतत्वाच्च शरीरी सो ऽस्य यत्प्रभुः स्वामित्वमस्य यत्सर्वं विष्णुः सर्वप्रवेशनात्
भगवान् भगवद्भावान् निर्मलत्वाच्छिवः स्मृतः परमः सम्प्रकृष्टत्वाद् अवनाद् ओमिति स्मृतः
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः त्रिधा विभज्य चात्मानं त्रैलोक्यं सम्प्रवर्तते
सृजते ग्रसते चैव रक्षते च त्रिभिः स्वयम् आदित्वाद् आदिदेवो ऽसाव् अजातत्वाद् अजः स्मृतः
पाति यस्मात्प्रजाः सर्वाः प्रजापतिर् इति स्मृतः देवेषु च महान्देवो महादेवस्ततः स्मृतः
सर्वगत्वाच्च देवानाम् अवश्यत्वाच्च ईश्वरः बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते
क्षेत्रज्ञः क्षेत्रविज्ञानाद् एकत्वात्केवलः स्मृतः यस्मात्पुर्यां स शेते च तस्मात्पूरुष उच्यते
अनादित्वाच्च पूर्वत्वात् स्वयंभूरिति संस्मृतः याज्यत्वादुच्यते यज्ञः कविर् विक्रान्तदर्शनात्
क्रमणः क्रमणीयत्वात् पालकश्चापि पालनात् आदित्यसंज्ञः कपिलो ह्य् अग्रजो ऽग्निरिति स्मृतः
हिरण्यमस्य गर्भो ऽभूद् धिरण्यस्यापि गर्भजः तस्माद्धिरण्यगर्भत्वं पुराणे ऽस्मिन्निरुच्यते
स्वयंभुवो ऽपि वृत्तस्य कालो विश्वात्मनस्तु यः न शक्यः परिसंख्यातुम् अपि वर्षशतैरपि
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणः स्मृतः तावच्छेषो ऽस्य कालो ऽन्यस् तस्यान्ते प्रतिसृज्यते
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै समतीतानि कल्पानां तावच्छेषाः परे तु ये यस्त्वयं वर्तते कल्पो वाराहस्तं निबोधत
प्रथमः सांप्रतस्तेषां कल्पो ऽयं वर्तते द्विजाः यस्मिन्स्वायंभुवाद्यास्तु मनवस्ते चतुर्दश
अतीता वर्तमानाश् च भविष्या ये च वै पुनः तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता
पूर्णं युगसहस्रं वै परिपाल्या महेश्वरैः प्रजाभिस्तपसा चैव तेषां शृणुत विस्तरम्
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि च कथितानि भविष्यन्ति कल्पः कल्पेन चैव हि
अतीतानि च कल्पानि सोदर्काणि सहान्वयैः अनागतेषु तद्वच्च तर्कः कार्यो विजानता
आपो ह्यग्रे समभवन् नष्टे च पृथिवीतले शान्ततारैकनीरे ऽस्मिन् न प्राज्ञायत किंचन
एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे तदा भवति वै ब्रह्मा सहस्राक्षः सहस्रपात्
सहस्रशीर्षा पुरुषो रुक्मवर्णस् त्वतीन्द्रियः ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा
सत्त्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमुदैक्षत इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति
आपो नाराश् च सूनव इत्यपां नाम शुश्रुमः आपूर्य ताभिर् अयनं कृतवानात्मनो यतः
अप्सु शेते यतस्तस्मात् ततो नारायणः स्मृतः चतुर्युगसहस्रस्य नैशं कालम् उपास्यतः
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा समाचरत्
निशायामिव खद्योतः प्रावृट्काले ततस्तु सः ततस् तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम्
अनुमानाद् असंमूढो भूमेरुद्धरणं पुनः अकरोत्स तनूमन्यां कल्पादिषु यथापुरा
ततो महात्मा भगवान् दिव्यरूपम् अचिन्तयत् सलिलेनाप्लुतां भूमिं दृष्ट्वा स तु समन्ततः
किंनु रूपमहं कृत्वा उद्धरेयं महीमिमाम् जलक्रीडानुसदृशं वाराहं रूपमाविशत्