आकाशेनावृतो वायुः खं तु भूतादिनावृतम् भूतादिर्महता चापि अव्यक्तेनावृतो महान्
शर्वश्चाण्डकपालस्थो भवश्चांभसि सुव्रताः रुद्रो ऽग्निमध्ये भगवान् उग्रो वायौ पुनः स्मृतः
भीमश्चावनिमध्यस्थो ह्य् अहङ्कारे महेश्वरः बुद्धौ च भगवानीशः सर्वतः परमेश्वरः
एतैरावरणैरण्डं सप्तभिः प्राकृतैर् वृतम् एता आवृत्य चान्योन्यम् अष्टौ प्रकृतयः स्थिताः
प्रसर्गकाले स्थित्वा तु ग्रसन्त्येताः परस्परम् एवं परस्परोत्पन्ना धारयन्ति परस्परम्
आधाराधेयभावेन विकारास्ते विकारिषु महेश्वरः परो ऽव्यक्ताद् अण्डम् अव्यक्तसंभवम्
अण्डाज्जज्ञे स एवेशः पुरुषो ऽर्कसमप्रभः तस्मिन्कार्यस्य करणं संसिद्धं स्वेच्छयैव तु
स वै शरीरी प्रथमः स वै पुरुष उच्यते तस्य वामाङ्गजो विष्णुः सर्वदेवनमस्कृतः
लक्ष्म्या देव्या ह्यभूद्देव इच्छया परमेष्ठिनः दक्षिणाङ्गभवो ब्रह्मा सरस्वत्या जगद्गुरुः
तस्मिन्नण्डे इमे लोका अन्तर्विश्वमिदं जगत् चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना
लोकालोकद्वयं किंचिद् अण्डे ह्यस्मिन्समर्पितम् यत्तु सृष्टौ प्रसंख्यातं मया कालान्तरं द्विजाः
एतत्कालान्तरं ज्ञेयम् अहर्वै पारमेश्वरम् रात्रिश्चैतावती ज्ञेया परमेशस्य कृत्स्नशः
अहस्तस्य तु या सृष्टिः रात्रिश् च प्रलयः स्मृतः नाहस्तु विद्यते तस्य न रात्रिरिति धारयेत्
उपचारस्तु क्रियते लोकानां हितकाम्यया इन्द्रियाणीन्द्रियार्थाश् च महाभूतानि पञ्च च
तस्मात् सर्वाणि भूतानि बुद्धिश् च सह दैवतैः अहस्तिष्ठन्ति सर्वाणि परमेशस्य धीमतः
अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः स्वात्मन्यवस्थिते व्यक्ते विकारे प्रतिसंहृते
साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ तमःसत्त्वरजोपेतौ समत्वेन व्यवस्थितौ
अनुपृक्तावभूतां ताव् ओतप्रोतौ परस्परम् गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते
तिले यथा भवेत्तैलं घृतं पयसि वा स्थितम् तथा तमसि सत्त्वे च रजस्यनुसृतं जगत्
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं तथा अर्हमुखे प्रवृत्तश् च परः प्रकृतिसंभवः
क्षोभयामास योगेन परेण परमेश्वरः प्रधानं पुरुषं चैव प्रविश्य स महेश्वरः
महेश्वरात्त्रयो देवा जज्ञिरे जगदीश्वरात् शाश्वताः परमा गुह्यः सर्वात्मानः शरीरिणः
एत एव त्रयो देवा एत एव त्रयो गुणाः एत एव त्रयो लोका एत एव त्रयो ऽग्नयः
परस्पराश्रिता ह्येते परस्परमनुव्रताः परस्परेण वर्तन्ते धारयन्ति परस्परम्
अन्योन्यमिथुना ह्येते अन्योन्यमुपजीविनः क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम्
ईश्वरस्तु परो देवो विष्णुश् च महतः परः ब्रह्मा च रजसा युक्तः सर्गादौ हि प्रवर्तते
परः स पुरुषो ज्ञेयः प्रकृतिः सा परा स्मृता
अधिष्ठिता सा हि महेश्वरेण प्रवर्तते चोद्यमने समन्तात् अनुप्रवृत्तस्तु महांस्तदेनां चिरस्थिरत्वाद् विषयं श्रियः स्वयम्
प्रधानगुणवैषम्यात् सर्गकालः प्रवर्तते ईश्वराधिष्ठितात्पूर्वं तस्मात्सदसदात्मकात्
संसिद्धः कार्यकरणे रुद्रश्चाग्रे ह्यवर्तत तेजसाप्रतिमो धीमान् अव्यक्तः सम्प्रकाशकः