प्रविष्टा पावकं विप्राः सा च भर्तृपथं गता प्रेतकार्यं हरेः कृत्वा पार्थः परमवीर्यवान्
रामस्य च तथान्येषां वृष्णीनामपि सुव्रतः कन्दमूलफलैस्तस्य बलिकार्यं चकार सः
द्रव्याभावात् स्वयं पार्थो भ्रातृभिश् च दिवं गतः एवं संक्षेपतः प्रोक्तः कृष्णस्याक्लिष्टकर्मणः
प्रभावो विलयश्चैव स्वेच्छयैव महात्मनः इत्येतत्सोमवंशानां नृपाणां चरितं द्विजाः
यः पठेच्छृणुयाद्वापि ब्राह्मणान् श्रावयेदपि स याति वैष्णवं लोकं नात्र कार्या विचारणा
आदिसर्गस्त्वया सूत सूचितो न प्रकाशितः सांप्रतं विस्तरेणैव वक्तुमर्हसि सुव्रत
महेश्वरो महादेवः प्रकृतेः पुरुषस्य च परत्वे संस्थितो देवः परमात्मा मुनीश्वराः
अव्यक्तं चेश्वरात्तस्माद् अभवत्कारणं परम् प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः
गन्धवर्णरसैर् हीनं शब्दस्पर्शविवर्जितम् अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम्
जगद्योनिं महाभूतं परं ब्रह्म सनातनम् विग्रहः सर्वभूतानाम् ईश्वराज्ञाप्रचोदितम्
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाव्ययम् अप्रकाशमविज्ञेयं ब्रह्माग्रे समवर्तत
अस्यात्मना सर्वमिदं व्याप्तं त्वासीच्छिवेच्छया गुणसाम्ये तदा तस्मिन्न् अविभागे तमोमये
सर्गकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै गुणभावाद्व्यज्यमानो महान् प्रादुर्बभूव ह
सूक्ष्मेण महता चाथ अव्यक्तेन समावृतम् सत्त्वोद्रिक्तो महानग्रे सत्तामात्रप्रकाशकः
मनो महांस्तु विज्ञेयम् एकं तत्कारणं स्मृतम् समुत्पन्नं लिङ्गमात्रं क्षेत्रज्ञाधिष्ठितं हि तत्
धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया
मनो महान्मतिर्ब्रह्म पूर्बुद्धिः ख्यातिरीश्वरः प्रज्ञा चितिः स्मृतिः संविद् विश्वेशश्चेति स स्मृतः
मनुते सर्वभूतानां यस्माच्चेष्टा फलं ततः सौक्ष्म्यात्तेन विभक्तं तु येन तन्मन उच्यते
तत्त्वानाम् अग्रजो यस्मान् महांश् च परिमाणतः विशेषेभ्यो गुणेभ्यो ऽपि महानिति ततः स्मृतः
बिभर्ति मानं मनुते विभागं मन्यते ऽपि च पुरुषो भोगसंबन्धात् तेन चासौ मतिः स्मृतः
बृहत्त्वाद् बृंहणत्वाच्च भावानां सकलाश्रयात् यस्माद्धारयते भावान् ब्रह्म तेन निरुच्यते
यः पूरयति यस्माच्च कृत्स्नान्देवाननुग्रहैः नयते तत्त्वभावं च तेन पूरिति चोच्यते
बुध्यते पुरुषश्चात्र सर्वान् भावान् हितं तथा यस्माद्बोधयते चैव बुद्धिस्तेन निरुच्यते
ख्यातिः प्रत्युपभोगश् च यस्मात्संवर्तते ततः भोगस्य ज्ञाननिष्ठत्वात् तेन ख्यातिरिति स्मृतः
ख्यायते तद्गुणैर् वापि ज्ञानादिभिर् अनेकशः तस्माच्च महतः संज्ञा ख्यातिरित्यभिधीयते
साक्षात्सर्वं विजानाति महात्मा तेन चेश्वरः यस्माज्ज्ञानानुगश्चैव प्रज्ञा तेन स उच्यते
ज्ञानादीनि च रूपाणि बहुकर्मफलानि च चिनोति यस्माद्भोगार्थं तेनासौ चितिरुच्यते
वर्तमानव्यतीतानि तथैवानागतान्यपि स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते
कृत्स्नं च विन्दते ज्ञानं यस्मान्माहात्म्यमुत्तमम् तस्माद् विन्देर् विदेश्चैव संविदित्यभिधीयते
विद्यते ऽपि च सर्वत्र तस्मिन्सर्वं च विन्दति तस्मात्संविदिति प्रोक्तो महद्भिर् मुनिसत्तमाः