रक्षमाणस्य देहस्य मायावी कंसरूपिणः किं कृतं दुष्कृतं मूर्ख जातः खलु तवान्तकृत्
देवक्याः स भयात्कंसो जघानैवाष्टमं त्विति स्मरन्ति विहितो मृत्युर् देवक्यास् तनयो ऽष्टमः
यस्तत्प्रतिकृतौ यत्नो भोजस्यासीद्वृथा हरेः प्रभावान्मुनिशार्दूलास् तया चैव जडीकृतः
कंसो ऽपि निहतस्तेन कृष्णेनाक्लिष्टकर्मणा निहता बहवश्चान्ये देवब्राह्मणघातिनः
तस्य कृष्णस्य तनयाः प्रद्युम्नप्रमुखास् तथा बहवः परिसंख्याताः सर्वे युद्धविशारदाः
कृष्णपुत्राः समाख्याताः कृष्णेन सदृशाः सुताः पुत्रेष्वेतेषु सर्वेषु चारुदेष्णादयो हरेः
विशिष्टा बलवन्तश् च रौक्मिणेयारिसूदनाः षोडशस्त्रीसहस्राणि शतमेकं तथाधिकम्
कृष्णस्य तासु सर्वासु प्रिया ज्येष्ठा च रुक्मिणी तया द्वादशवर्षाणि कृष्णेनाक्लिष्टकर्मणा
उष्यता वायुभक्षेण पुत्रार्थं पूजितो हरः चारुदेष्णः सुचारुश् च चारुवेषो यशोधरः
चारुश्रवाश्चारुयशाः प्रद्युम्नः साम्ब एव च एते लब्धास्तु कृष्णेन शूलपाणिप्रसादतः
तान् दृष्ट्वा तनयान्वीरान् रौक्मिणेयांश् च रुक्मिणीम् जाम्बवत्यब्रवीत्कृष्णं भार्या कृष्णस्य धीमतः
मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तरम् सुरेशसंमितं पुत्रं प्रसन्नो दातुमर्हसि
जाम्बवत्या वचः श्रुत्वा जगन्नाथस्ततो हरिः तपस्तप्तुं समारेभे तपोनिधिरनिन्दितः
सो ऽथ नारायणः कृष्णः शङ्खचक्रगदाधरः व्याघ्रपादस्य च मुनेर् गत्वा चैवाश्रमोत्तमम्
ऋषिं दृष्ट्वा त्वङ्गिरसं प्रणिपत्य जनार्दनः दिव्यं पाशुपतं योगं लब्धवांस्तस्य चाज्ञया
प्रलुप्तश्मश्रुकेशश् च घृताक्तो मुञ्जमेखली दीक्षितो भगवान्कृष्णस् तताप च परंतपः
ऊर्ध्वबाहुर् निरालंबः पादाङ्गुष्ठाग्रधिष्ठितः फलाम्बनिलभोजी च ऋतुत्रयम् अधोक्षजः
तपसा तस्य संतुष्टो ददौ रुद्रो बहून् वरान् साम्बं जांबवतीपुत्रं कृष्णाय च महात्मने
तथा जांबवती चैव सांबं भार्या हरेः सुतम् प्रहर्षमतुलं लेभे लब्ध्वादित्यं यथादितिः
बाणस्य च तदा तेन छेदितं मुनिपुङ्गवाः भुजानां चैव साहस्रं शापाद्रुद्रस्य धीमतः
अथ दैत्यवधं चक्रे हलायुधसहायवान् तथा दुष्टक्षितीशानां लीलयैव रणाजिरे
स हत्वा देवसम्भूतं नरकं दैत्यपुङ्गवम् ब्राह्मणस्योर्ध्वचक्रस्य वरदानान्महात्मनः
स्वोपभोग्यानि कन्यानां षोडशातुलविक्रमः शताधिकानि जग्राह सहस्राणि महाबलः
शापव्याजेन विप्राणाम् उपसंहृतवान् कुलम् संहृत्य तत्कुलं चैव प्रभासे ऽतिष्ठदच्युतः
तदा तस्यैव तु गतं वर्षाणामधिकं शतम् कृष्णस्य द्वारकायां वै जराक्लेशापहारिणः
विश्वामित्रस्य कण्वस्य नारदस्य च धीमतः शापं पिण्डारके ऽरक्षद् वचो दुर्वाससस्तदा
त्यक्त्वा च मानुषं रूपं जरकास्त्रच्छलेन तु अनुगृह्य च कृष्णो ऽपि लुब्धकं प्रययौ दिवम्
अष्टावक्रस्य शापेन भार्याः कृष्णस्य धीमतः चौरैश्चापहृताः सर्वास् तस्य मायाबलेन च
बलभद्रो ऽपि संत्यज्य नागो भूत्वा जगाम च महिष्यस्तस्य कृष्णस्य रुक्मिणीप्रमुखाः शुभाः
सहाग्निं विविशुः सर्वाः कृष्णेनाक्लिष्टकर्मणा रेवती च तथा देवी बलभद्रेण धीमता