तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ वृषदेवोपदेवा च तथान्या देवरक्षिता
श्रीदेवा शान्तिदेवा च सहदेवा तथापरा देवकी चापि तासां च वरिष्ठाभूत्सुमध्यमा
नवोग्रसेनस्य सुतास् तेषां कंसस्तु पूर्वजः तेषां पुत्राश्च पौत्राश् च शतशो ऽथ सहस्रशः
देवकस्य सुता पत्नी वसुदेवस्य धीमतः बभूव वन्द्या पूज्या च देवैरपि पतिव्रता
रोहिणी च महाभागा पत्नी चानकदुन्दुभेः पौरवी बाह्लिकसुता संपूज्यासीत्सुरैरपि
असूत रोहिणी रामं बलश्रेष्ठं हलायुधम् आश्रितं कंसभीत्या च स्वात्मानं शान्ततेजसम्
जाते रामे ऽथ निहते षड्गर्भे चातिदक्षिणे वसुदेवो हरिं धीमान् देवक्यामुदपादयत्
स एव परमात्मासौ देवदेवो जनार्दनः हलायुधश् च भगवान् अनन्तो रजतप्रभः
भृगुशापछलेनैव मानयन्मानुषीं तनुम् बभूव तस्यां देवक्यां वासुदेवो जनार्दन
उमादेहसमुद्भूता योगनिद्रा च कौशिकी नियोगाद्देवदेवस्य यशोदातनया ह्यभूत्
सा चैव प्रकृतिः साक्षात् सर्वदेवनमस्कृता पुरुषो भगवान्कृष्णो धर्ममोक्षफलप्रदः
तां कन्यां जगृहे रक्षन् कंसात्स्वस्यात्मजं तदा चतुर्भुजं विशालाक्षं श्रीवत्सकृतलाञ्छनम्
शङ्खचक्रगदापद्मं धारयन्तं जनार्दनम् यशोदायै प्रदत्त्वा तु वसुदेवश् च बुद्धिमान्
दत्त्वैनं नन्दगोपस्य रक्षतामिति चाब्रवीत् रक्षकं जगतां विष्णुं स्वेच्छया धृतविग्रहम्
प्रसादाच्चैव देवस्य शिवस्यामिततेजसः रामेण सार्धं तं दत्त्वा वरदं परमेश्वरम्
भूभारनिग्रहार्थं च ह्य् अवतीर्णं जगद्गुरुम् अतो वै सर्वकल्याणं यादवानां भविष्यति
अयं स गर्भो देवक्या यो नः क्लेश्यान्हरिष्यति उग्रसेनात्मजायाथ कंसायानकदुन्दुभिः
निवेदयामास तदा जातां कन्यां सुलक्षणाम् अस्यास्तवाष्टमो गर्भो देवक्याः कंस सुव्रत
मृत्युर् एव न संदेह इति वाणी पुरातनी ततस्तां हन्तुमारेभे कंसः सोल्लङ्घ्य चांबरम्
उवाचाष्टभुजा देवी मेघगंभीरया गिरा रक्षस्व तत्स्वकं देहम् आयातो मृत्युरेव ते
रक्षमाणस्य देहस्य मायावी कंसरूपिणः किं कृतं दुष्कृतं मूर्ख जातः खलु तवान्तकृत्
देवक्याः स भयात्कंसो जघानैवाष्टमं त्विति स्मरन्ति विहितो मृत्युर् देवक्यास् तनयो ऽष्टमः
यस्तत्प्रतिकृतौ यत्नो भोजस्यासीद्वृथा हरेः प्रभावान्मुनिशार्दूलास् तया चैव जडीकृतः
कंसो ऽपि निहतस्तेन कृष्णेनाक्लिष्टकर्मणा निहता बहवश्चान्ये देवब्राह्मणघातिनः
तस्य कृष्णस्य तनयाः प्रद्युम्नप्रमुखास् तथा बहवः परिसंख्याताः सर्वे युद्धविशारदाः
कृष्णपुत्राः समाख्याताः कृष्णेन सदृशाः सुताः पुत्रेष्वेतेषु सर्वेषु चारुदेष्णादयो हरेः
विशिष्टा बलवन्तश् च रौक्मिणेयारिसूदनाः षोडशस्त्रीसहस्राणि शतमेकं तथाधिकम्
कृष्णस्य तासु सर्वासु प्रिया ज्येष्ठा च रुक्मिणी तया द्वादशवर्षाणि कृष्णेनाक्लिष्टकर्मणा
उष्यता वायुभक्षेण पुत्रार्थं पूजितो हरः चारुदेष्णः सुचारुश् च चारुवेषो यशोधरः
चारुश्रवाश्चारुयशाः प्रद्युम्नः साम्ब एव च एते लब्धास्तु कृष्णेन शूलपाणिप्रसादतः