गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः गान्धारी जनयामास सुमित्रं मित्रनन्दनम्
माद्री लेभे च तं पुत्रं ततः सा देवमीढुषम् अनमित्रं शिनिं चैव तावुभौ पुरुषोत्तमौ
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः प्रसेनश् च महाभागः सत्राजिच्च सुतावुभौ
तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत् स्यमन्तको नाम मणिर् दत्तस्तस्मै विवस्वता
पृथिव्यां सर्वरत्नानाम् असौ राजाभवन्मणिः कदाचिन्मृगयां यातः प्रसेनेन सहैव सः
वधं प्राप्तो ऽसहायश् च सिंहादेव सुदारुणात् अथ पुत्रः शिनेर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात्
सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः सात्यकिर्युयुधानस्तु शिनेर्नप्ता प्रतापवान्
असंगो युयुधानस्य कुणिस्तस्य सुतो ऽभवत् कुणेर् युगंधरः पुत्रः शैनेया इति कीर्तिताः
माद्र्याः सुतस्य संजज्ञे सुतो वार्ष्णिर्युधाजितः श्वफल्क इति विख्यातस् त्रैलोक्यहितकारकः
श्वफल्कश् च महाराजो धर्मात्मा यत्र वर्तते नास्ति व्याधिभयं तत्र नावृष्टिभयमप्युत
श्वफल्कः काशिराजस्य सुतां भार्यामवाप सः गान्दिनीं नाम काश्यो हि ददौ तस्मै स्वकन्यकाम्
सा मातुरुदरस्था वै बहून्वर्षगणान्किल वसन्ती न च संजज्ञे गर्भस्था तां पिताब्रवीत्
जायस्व शीघ्रं भद्रं ते किमर्थं चाभितिष्ठसि प्रोवाच चैनं गर्भस्था सा कन्या गान्दिनी तदा
वर्षत्रयं प्रतिदिनं गामेकां ब्राह्मणाय तु यदि दद्यास्ततः कुक्षेर् निर्गमिष्याम्यहं पितः
तथेत्युवाच तस्या वै पिता काममपूरयत् दाता शूरश् च यज्वा च श्रुतवानतिथिप्रियः
तस्याः पुत्रः स्मृतो ऽक्रूरः श्वफल्काद्भूरिदक्षिणः रत्ना कन्या च शैवस्य ह्य् अक्रूरस्तामवाप्तवान्
अस्यामुत्पादयामास तनयांस्तान्निबोधत उपमन्युस् तथा माङ्गुर् वृतस्तु जनमेजयः
गिरिरक्षस्तथोपेक्षः शत्रुघ्नो यो ऽरिमर्दनः धर्मभृद् वृष्टधर्मा च गोधनो ऽथ वरस् तथा
आवाहप्रतिवाहौ च सुधारा च वराङ्गना अक्रूरस्योग्रसेन्यां तु पुत्रौ द्वौ कुलनन्दनौ
देववानुपदेवश् च जज्ञाते देवसंमतौ सुमित्रस्य सुतो जज्ञे चित्रकश् च महायशाः
चित्रकस्याभवन्पुत्रा विपृथुः पृथुरेव च अश्वग्रीवः सुबाहुश् च सुधासूकगवेक्षणौ
अरिष्टनेमिरश्वश् च धर्मो धर्मभृदेव च सुभूमिर्बहुभूमिश् च श्रविष्ठाश्रवणे स्त्रियौ
अन्धकात्काश्यदुहिता लेभे च चतुरः सुतान् कुकुरं भजमानं च शुचिं कम्बलबर्हिषम्
कुकुरस्य सुतो वृष्णिर् वृष्णेः शूरस्ततो ऽभवत् कपोतरोमातिबलस् तस्य पुत्रो विलोमकः
तस्यासीत् तुम्बुरुसखो विद्वान्पुत्रो नलः किल ख्यायते स सुनाम्ना तु चन्दनानकदुन्दुभिः
तस्मादप्यभिजित्पुत्र उत्पन्नो ऽस्य पुनर्वसुः अश्वमेधं स पुत्रार्थम् आजहार नरोत्तमः
तस्य मध्ये ऽतिरात्रस्य सदोमध्यात्समुत्थितः ततस्तु विद्वान् सर्वज्ञो दाता यज्वा पुनर्वसुः
तस्यापि पुत्रमिथुनं बभूवाभिजितः किल आहुकश्चाहुकी चैव ख्यातौ कीर्तिमतां वरौ
आहुकात् काश्यदुहितुर् द्वौ पुत्रौ संबभूवतुः देवकश्चोग्रसेनश् च देवगर्भसमावुभौ
देवकस्य सुता राज्ञो जज्ञिरे त्रिदशोपमाः देववान् उपदेवश् च सुदेवो देवरक्षितः