प्रजीवत्येति वै स्वर्गं राज्यं सौख्यं च विन्दति
सात्वतः सत्यसम्पन्नः प्रजज्ञे चतुरः सुतान् भजनं भ्राजमानं च दिव्यं देवावृधं नृपम्
अन्धकं च महाभागं वृष्णिं च यदुनन्दनम् तेषां निसर्गांश्चतुरः शृणुध्वं विस्तरेण वै
सृञ्जय्यां भजनाच्चैव भ्राजमानाद्विजज्ञिरे अयुतायुः शतायुश् च बलवान् हर्षकृत्स्मृतः
तेषां देवावृधो राजा चचार परमं तपः पुत्रः सर्वगुणोपेतो मम भूयादिति स्मरन्
तस्य बभ्रुरिति ख्यातः पुण्यश्लोको नृपोत्तमः अनुवंशपुराणज्ञा गायन्तीति परिश्रुतम्
गुणान्देवावृधस्याथ कीर्तयन्तो महात्मनः यथैव शृणुमो दूरात् संपश्यामस्तथान्तिकात्
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः पुरुषाः पञ्च षष्टिस्तु षट् सहस्राणि चाष्ट च
ये ऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि यज्वा दानमतिर्वीरो ब्रह्मण्यस्तु दृढव्रतः
कीर्तिमांश् च महातेजाः सात्वतानां महारथः तस्यान्ववाये सम्भूता भोजा वै दैवतोपमाः
गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः गान्धारी जनयामास सुमित्रं मित्रनन्दनम्
माद्री लेभे च तं पुत्रं ततः सा देवमीढुषम् अनमित्रं शिनिं चैव तावुभौ पुरुषोत्तमौ
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः प्रसेनश् च महाभागः सत्राजिच्च सुतावुभौ
तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत् स्यमन्तको नाम मणिर् दत्तस्तस्मै विवस्वता
पृथिव्यां सर्वरत्नानाम् असौ राजाभवन्मणिः कदाचिन्मृगयां यातः प्रसेनेन सहैव सः
वधं प्राप्तो ऽसहायश् च सिंहादेव सुदारुणात् अथ पुत्रः शिनेर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात्
सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः सात्यकिर्युयुधानस्तु शिनेर्नप्ता प्रतापवान्
असंगो युयुधानस्य कुणिस्तस्य सुतो ऽभवत् कुणेर् युगंधरः पुत्रः शैनेया इति कीर्तिताः
माद्र्याः सुतस्य संजज्ञे सुतो वार्ष्णिर्युधाजितः श्वफल्क इति विख्यातस् त्रैलोक्यहितकारकः
श्वफल्कश् च महाराजो धर्मात्मा यत्र वर्तते नास्ति व्याधिभयं तत्र नावृष्टिभयमप्युत
श्वफल्कः काशिराजस्य सुतां भार्यामवाप सः गान्दिनीं नाम काश्यो हि ददौ तस्मै स्वकन्यकाम्
सा मातुरुदरस्था वै बहून्वर्षगणान्किल वसन्ती न च संजज्ञे गर्भस्था तां पिताब्रवीत्
जायस्व शीघ्रं भद्रं ते किमर्थं चाभितिष्ठसि प्रोवाच चैनं गर्भस्था सा कन्या गान्दिनी तदा
वर्षत्रयं प्रतिदिनं गामेकां ब्राह्मणाय तु यदि दद्यास्ततः कुक्षेर् निर्गमिष्याम्यहं पितः
तथेत्युवाच तस्या वै पिता काममपूरयत् दाता शूरश् च यज्वा च श्रुतवानतिथिप्रियः
तस्याः पुत्रः स्मृतो ऽक्रूरः श्वफल्काद्भूरिदक्षिणः रत्ना कन्या च शैवस्य ह्य् अक्रूरस्तामवाप्तवान्
अस्यामुत्पादयामास तनयांस्तान्निबोधत उपमन्युस् तथा माङ्गुर् वृतस्तु जनमेजयः
गिरिरक्षस्तथोपेक्षः शत्रुघ्नो यो ऽरिमर्दनः धर्मभृद् वृष्टधर्मा च गोधनो ऽथ वरस् तथा
आवाहप्रतिवाहौ च सुधारा च वराङ्गना अक्रूरस्योग्रसेन्यां तु पुत्रौ द्वौ कुलनन्दनौ
देववानुपदेवश् च जज्ञाते देवसंमतौ सुमित्रस्य सुतो जज्ञे चित्रकश् च महायशाः