बाह्यशौचेन युक्तः संस् तथा चाभ्यन्तरं चरेत् आग्नेयं वारुणं ब्राह्मं कर्तव्यं शिवपूजकैः
स्नानं विधानतः सम्यक् पश्चाद् आभ्यन्तरं चरेत् आ देहान्तं मृदालिप्य तीर्थतोयेषु सर्वदा
अवगाह्यापि मलिनो ह्य् अन्तः शौचविवर्जितः शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः
सदावगाह्य सलिले विशुद्धाः किं द्विजोत्तमाः तस्मादाभ्यन्तरं शौचं सदा कार्यं विधानतः
आत्मज्ञानाम्भसि स्नात्वा सकृदालिप्य भावतः सुवैराग्यमृदा शुद्धः शौचमेवं प्रकीर्तितम्
शुद्धस्य सिद्धयो दृष्टा नैवाशुद्धस्य सिद्धयः न्यायेनागतया वृत्त्या संतुष्टो यस्तु सुव्रतः
संतोषस्तस्य सततम् अतीतार्थस्य चास्मृतिः चान्द्रायणादिनिपुणस् तपांसि सुशुभानि च
स्वाध्यायस्तु जपः प्रोक्तः प्रणवस्य त्रिधा स्मृतः वाचिकश्चाधमो मुख्य उपांशुश्चोत्तमोत्तमः
मानसो विस्तरेणैव कल्पे पञ्चाक्षरे स्मृतः तथा शिवप्रणीधानं मनोवाक्कायकर्मणा
शिवज्ञानं गुरोर्भक्तिर् अचला सुप्रतिष्ठिता निग्रहो ह्यपहृत्याशु प्रसक्तानीन्द्रियाणि च
विषयेषु समासेन प्रत्याहारः प्रकीर्तितः चित्तस्य धारणा प्रोक्ता स्थानबन्धः समासतः
तस्याः स्वास्थ्येन ध्यानं च समाधिश् च विचारतः तत्रैकचित्तता ध्यानं प्रत्ययान्तरवर्जितम्
चिद्भासमर्थमात्रस्य देहशून्यमिव स्थितम् समाधिः सर्वहेतुश् च प्राणायाम इति स्मृतः
प्राणः स्वदेहजो वायुर् यमस्तस्य निरोधनम् त्रिधा द्विजैर्यमः प्रोक्तो मन्दो मध्योत्तमस् तथा
प्राणापाननिरोधस्तु प्राणायामः प्रकीर्तितः प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम्
नीचो द्वादशमात्रस्तु उद्धातो द्वादशः स्मृतः मध्यमस् तु द्विरुद्धातश् चतुर्विंशतिमात्रकः
मुख्यस्तु यस्त्रिरुद्धातः षट्त्रिंशन्मात्र उच्यते प्रस्वेदकम्पनोत्थानजनकश्च यथाक्रमम्
आनन्दोद्भवयोगार्थं निद्राघूर्णिस्तथैव च रोमाञ्चध्वनिसंविद्धस्वाङ्गमोटनकम्पनम्
भ्रमणं स्वेदजन्या सा संविन्मूर्छा भवेद्यदा तदोत्तमोत्तमः प्रोक्तः प्राणायामः सुशोभनः
सगर्भो ऽगर्भ इत्युक्तः सजपो विजपः क्रमात् इभो वा शरभो वापि दुराधर्षो ऽथ केसरी
गृहीतो दम्यमानस्तु यथास्वस्थस्तु जायते तथा समीरणो ऽस्वस्थो दुराधर्षश् च योगिनाम्
न्यायतः सेव्यमानस्तु स एवं स्वस्थतां व्रजेत् यथैव मृगराङ्नागः शरभो वापि दुर्मदः
कालान्तरवशाद्योगाद् दम्यते परमादरात् तथा परिचयात्स्वास्थ्यं समत्वं चाधिगच्छति
योगादभ्यसते यस्तु व्यसनं नैव जायते एवमभ्यस्यमानस्तु मुनेः प्राणो विनिर्दहेत्
मनोवाक्कायजान् दोषान् कर्तुर्देहं च रक्षति संयुक्तस्य तथा सम्यक् प्राणायामेन धीमतः
दोषात्तस्माच्च नश्यन्ति निश्वासस्तेन जीर्यते प्राणायामेन सिध्यन्ति दिव्याः शान्त्यादयः क्रमात्
शान्तिः प्रशान्तिर्दीप्तिश् च प्रसादश् च तथा क्रमात् आदौ चतुष्टयस्येह प्रोक्ता शान्तिरिह द्विजाः
सहजागन्तुकानां च पापानां शान्तिर् उच्यते प्रशान्तिः संयमः सम्यग् वचसामिति संस्मृता
प्रकाशो दीप्तिरित्युक्तः सर्वतः सर्वदा द्विजाः सर्वेन्द्रियप्रसादस्तु बुद्धेर्वै मरुतामपि
प्रसाद इति सम्प्रोक्तः स्वान्ते त्विह चतुष्टये प्राणो ऽपानः समानश् च उदानो व्यान एव च