क्रोष्टुश् च शृणु राजर्षेर् वंशमुत्तमपौरुषम् यस्यान्वये तु सम्भूतो विष्णुर् वृष्णिकुलोद्वहः
क्रोष्टोरेको ऽभवत्पुत्रो वृजिनीवान्महायशाः तस्य पुत्रो ऽभवत् स्वाती कुशङ्कुस् तत्सुतो ऽभवत्
अथ प्रसूतिमिच्छन्वै कुशङ्कुः सुमहाबलः महाक्रतुभिर् ईजे ऽसौ विविधैराप्तदक्षिणैः
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिर् अन्वितः अथ चैत्ररथो वीरो यज्वा विपुलदक्षिणः
शशबिन्दुस् तु वै राजा अन्वयाद् व्रतम् उत्तमम् चक्रवर्ती महासत्त्वो महावीर्यो बहुप्रजाः
शशबिन्दोस्तु पुत्राणां सहस्राणामभूच्छतम् शंसन्ति तस्य पुत्राणाम् अनन्तकम् अनुत्तमम्
अनन्तकात् सुतो यज्ञो यज्ञस्य तनयो धृतिः उशनास्तस्य तनयः सम्प्राप्य तु महीमिमाम्
आजहाराश्वमेधानां शतमुत्तमधार्मिकः स्मृतश्चोशनसः पुत्रः सितेषुर् नाम पार्थिवः
मरुतस्तस्य तनयो राजर्षिर्वंशवर्धनः वीरः कम्बलबर्हिस्तु मरुस्तस्यात्मजः स्मृतः
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलबर्हिषः निहत्य रुक्मकवचो वीरान् कवचिनो रणे
धन्विनो निशितैर् बाणैर् अवाप श्रियमुत्तमाम् अश्वमेधे तु धर्मात्मा ऋत्विग्भ्यः पृथिवीं ददौ
जज्ञे तु रुक्मकवचात् परावृत्परवीरहा जज्ञिरे पञ्च पुत्रास्तु महासत्त्वाः परावृतः
रुक्मेषुः पृथुरुक्मश् च ज्यामघः परिघो हरिः परिघं च हरिं चैव विदेहेषु पिता न्यसत्
रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयात् तैस्तु प्रव्राजितो राजा ज्यामघो ऽवसदाश्रमे
प्रशान्तः स वनस्थो ऽपि ब्राह्मणैरेव बोधितः जगाम धनुरादाय देशमन्यं ध्वजी रथी
नर्मदातीरमेकाकी केवलं भार्यया युतः ऋक्षवन्तं गिरिं गत्वा त्यक्तमन्यैरुवास सः
ज्यामघस्याभवद्भार्या शैब्या शीलवती सती सा चैव तपसोग्रेण शैब्या वै सम्प्रसूयत
सुतं विदर्भं सुभगा वयःपरिणता सती राजा पुत्रसुतायां तु विद्वांसौ क्रथकैशिकौ
पुत्रौ विदर्भराजस्य शूरौ रणविशारदौ रोमपादस्तृतीयश् च बभ्रुस्तस्यात्मजः स्मृतः
सुधृतिस्तनयस्तस्य विद्वान्परमधार्मिकः कौशिकस्तनयस्तस्मात् तस्माच्चैद्यान्वयः स्मृतः
क्रथो विदर्भस्य सुतः कुन्तिस्तस्यात्मजो ऽभवत् कुन्तेर् वृतस्ततो जज्ञे रणधृष्टः प्रतापवान्
रणधृष्टस्य च सुतो निधृतिः परवीरहा दशार्हो नैधृतो नाम्ना महारिगणसूदनः
दशार्हस्य सुतो व्याप्तो जीमूत इति तत्सुतः जीमूतपुत्रो विकृतिस् तस्य भीमरथः सुतः
अथ भीमरथस्यासीत् पुत्रो नवरथः किल दानधर्मरतो नित्यं सत्यशीलपरायणः
तस्य चासीद्दृढरथः शकुनिस्तस्य चात्मजः तस्मात् करम्भः सम्भूतो देवरातो ऽभवत्ततः
देवरातादभूद्राजा देवरातिर् महायशाः देवगर्भोपमो जज्ञे यो देवक्षत्रनामकः
देवक्षत्रसुतः श्रीमान् मधुर्नाम महायशाः मधूनां वंशकृद्राजा मधोस्तु कुरुवंशकः
कुरुवंशाद् अनुस् तस्मात् पुरुत्वान् पुरुषोत्तमः अंशुर्जज्ञे च वैदर्भ्यां भद्रवत्यां पुरुत्वतः
ऐक्ष्वाकीम् अवहच्चांशुः सत्त्वस्तस्मादजायत सत्त्वात् सर्वगुणोपेतः सात्वतः कुलवर्धनः
ज्यामघस्य मया प्रोक्ता सृष्टिर्वै विस्तरेण वः यः पठेच्छृणुयाद्वापि निसृष्टिं ज्यामघस्य तु