जगाम स रथो नाशं शापाद्गर्गस्य धीमतः गर्गस्य हि सुतं बालं स राजा जनमेजयः
अक्रूरं हिंसयामास ब्रह्महत्यामवाप सः स लोहगन्धी राजर्षिः परिधावन्नितस्ततः
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ततः स दुःखसंतप्तो न लेभे संविदं क्वचित्
जगाम शौनकमृषिं शरण्यं व्यथितस्तदा इन्द्रेतिर् नाम विख्यातो यो ऽसौ मुनिरुदारधीः
याजयामास चेन्द्रेतिस् तं नृपं जनमेजयम् अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः
स लोहगन्धान्निर्मुक्त एनसा च महायशाः यज्ञस्यावभृथे मध्ये यातो दिव्यो रथः शुभः
तस्माद्वंशात्परिभ्रष्टो वसोश्चेदिपतेः पुनः दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः
ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः
अभ्यषिञ्चत्पुरुं पुत्रं ययातिर्नाहुषः प्रभुः कृतोपकारस्तेनैव पुरुणा द्विजसत्तमाः
अभिषेक्तुकामं च नृपं पुरुं पुत्रं कनीयसम् ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ज्येष्ठं यदुमतिक्रम्य कनीयान्राज्यमर्हति
एते संबोधयामस्त्वां धर्मं च अनुपालय
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन
मम ज्येष्ठेन यदुना नियोगो नानुपालितः प्रतिकूलमतिश्चैव न स पुत्रः सतां मतः
मातापित्रोर्वचनकृत् सद्भिः पुत्रः प्रशस्यते स पुत्रः पुत्रवद् यस् तु वर्तते मातृपितृषु
यदुनाहमवज्ञातस् तथा तुर्वसुनापि च द्रुह्येन चानुना चैव मय्यवज्ञा कृता भृशम्
पुरुणा च कृतं वाक्यं मानितश् च विशेषतः कनीयान्मम दायादो जरा येन धृता मम
शुक्रेण मे समादिष्टा देवयान्याः कृते जरा प्रार्थितेन पुनस्तेन जरा संचारिणी कृता
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् पुत्रो यस्त्वनुवर्तेत स ते राज्यधरस्त्विति
भवन्तो ऽप्यनुजानन्तु पूरू राज्ये ऽभिषिच्यते यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा
सर्वमर्हति कल्याणं कनीयान् अपि स प्रभुः अर्हः पूरुरिदं राज्यं यः सुतो वाक्यकृत्तव
वरदानेन शुक्रस्य न शक्यं कर्तुमन्यथा एवं जानपदैस्तुष्टैर् इत्युक्तो नाहुषस्तदा
अभिषिच्य ततो राज्यं पूरुं स सुतम् आत्मनः दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत्
दक्षिणायामथो राजा यदुं ज्येष्ठं न्ययोजयत् प्रतीच्यामुत्तरस्यां तु द्रुह्युं चानुं च तावुभौ
सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् व्यभजच्च त्रिधा राज्यं पुत्रेभ्यो नाहुषस्तदा
पुत्रसंक्रामितश्रीस्तु हर्षनिर्भरमानसः प्रीतिमानभवद्राजा भारम् आवेश्य बन्धुषु
अत्र गाथा महाराज्ञा पुरा गीता ययातिना याभिः प्रत्याहरेत् कामान् सर्वतो ऽङ्गानि कूर्मवत्
ताभिर् एव नरः श्रीमान् नान्यथा कर्मकोटिकृत् न जातु कामः कामानाम् उपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
नालमेकस्य तत्सर्वम् इति मत्वा शमं व्रजेत् यदा न कुरुते भावं सर्वभूतेषु पापकम्