विजातिश्चेति षडिमे सर्वे प्रख्यातकीर्तयः यतिर्ज्येष्ठश् च तेषां वै ययातिस्तु ततो ऽवरः
ज्येष्ठस्तु यतिर्मोक्षार्थो ब्रह्मभूतो ऽभवत्प्रभुः तेषां ययातिः पञ्चानां महाबलपराक्रमः
देवयानीमुशनसः सुतां भार्यामवाप सः शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः
यदुं च तुर्वसुं चैव देवयानी व्यजायत तावुभौ शुभकर्माणौ स्तुतौ विद्याविशारदौ
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ययातये रथं तस्मै ददौ शुक्रः प्रतापवान्
तोषितस्तेन विप्रेन्द्रः प्रीतः परमभास्वरम् सुसंगं काञ्चनं दिव्यम् अक्षये च महेषुधी
युक्तं मनोजवैर् अश्वैर् येन कन्यां समुद्वहन् स तेन रथमुख्येन षण्मासेनाजयन्महीम्
ययातिर्युधि दुर्धर्षो देवदानवमानुषैः भवभक्तस्तु पुण्यात्मा धर्मनिष्ठः समञ्जसः
यज्ञयाजी जितक्रोधः सर्वभूतानुकम्पनः कौरवाणां च सर्वेषां स भवद्रथ उत्तमः
यावन्नरेन्द्रप्रवरः कौरवो जनमेजयः पूरोर्वंशस्य राज्ञस्तु राज्ञः पारिक्षितस्य तु
जगाम स रथो नाशं शापाद्गर्गस्य धीमतः गर्गस्य हि सुतं बालं स राजा जनमेजयः
अक्रूरं हिंसयामास ब्रह्महत्यामवाप सः स लोहगन्धी राजर्षिः परिधावन्नितस्ततः
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ततः स दुःखसंतप्तो न लेभे संविदं क्वचित्
जगाम शौनकमृषिं शरण्यं व्यथितस्तदा इन्द्रेतिर् नाम विख्यातो यो ऽसौ मुनिरुदारधीः
याजयामास चेन्द्रेतिस् तं नृपं जनमेजयम् अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः
स लोहगन्धान्निर्मुक्त एनसा च महायशाः यज्ञस्यावभृथे मध्ये यातो दिव्यो रथः शुभः
तस्माद्वंशात्परिभ्रष्टो वसोश्चेदिपतेः पुनः दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः
ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः
अभ्यषिञ्चत्पुरुं पुत्रं ययातिर्नाहुषः प्रभुः कृतोपकारस्तेनैव पुरुणा द्विजसत्तमाः
अभिषेक्तुकामं च नृपं पुरुं पुत्रं कनीयसम् ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ज्येष्ठं यदुमतिक्रम्य कनीयान्राज्यमर्हति
एते संबोधयामस्त्वां धर्मं च अनुपालय
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन
मम ज्येष्ठेन यदुना नियोगो नानुपालितः प्रतिकूलमतिश्चैव न स पुत्रः सतां मतः
मातापित्रोर्वचनकृत् सद्भिः पुत्रः प्रशस्यते स पुत्रः पुत्रवद् यस् तु वर्तते मातृपितृषु
यदुनाहमवज्ञातस् तथा तुर्वसुनापि च द्रुह्येन चानुना चैव मय्यवज्ञा कृता भृशम्
पुरुणा च कृतं वाक्यं मानितश् च विशेषतः कनीयान्मम दायादो जरा येन धृता मम
शुक्रेण मे समादिष्टा देवयान्याः कृते जरा प्रार्थितेन पुनस्तेन जरा संचारिणी कृता
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् पुत्रो यस्त्वनुवर्तेत स ते राज्यधरस्त्विति
भवन्तो ऽप्यनुजानन्तु पूरू राज्ये ऽभिषिच्यते यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा