विण्मूत्रोत्सर्गकालेषु बहिर्भूमौ यथा मतिः तथा कार्या रतौ चापि स्वदारे चान्यतः कुतः
अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् तस्मान्नारीषु संसर्गं दूरतः परिवर्जयेत्
भोगेन तृप्तिर्नैवास्ति विषयाणां विचारतः तस्माद्विरागः कर्तव्यो मनसा कर्मणा गिरा
न जातु कामः कामानाम् उपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
तस्मात्त्यागः सदा कार्यस् त्व् अमृतत्वाय योगिना अविरक्तो यतो मर्त्यो नानायोनिषु वर्तते
त्यागेनैवामृतत्वं हि श्रुतिस्मृतिविदां वराः कर्मणा प्रजया नास्ति द्रव्येण द्विजसत्तमाः
तस्माद्विरागः कर्तव्यो मनोवाक्कायकर्मणा ऋतौ ऋतौ निवृत्तिस्तु ब्रह्मचर्यमिति स्मृतम्
यमाः संक्षेपतः प्रोक्ता नियमांश् च वदामि वः शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः
व्रतोपवासमौनं च स्नानं च नियमा दश नियमः स्यादनीहा च शौचं तुष्टिस्तपस् तथा
जपः शिवप्रणीधानं पद्मकाद्यं तथासनम् बाह्यमाभ्यन्तरं प्रोक्तं शौचमाभ्यन्तरं वरम्
बाह्यशौचेन युक्तः संस् तथा चाभ्यन्तरं चरेत् आग्नेयं वारुणं ब्राह्मं कर्तव्यं शिवपूजकैः
स्नानं विधानतः सम्यक् पश्चाद् आभ्यन्तरं चरेत् आ देहान्तं मृदालिप्य तीर्थतोयेषु सर्वदा
अवगाह्यापि मलिनो ह्य् अन्तः शौचविवर्जितः शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः
सदावगाह्य सलिले विशुद्धाः किं द्विजोत्तमाः तस्मादाभ्यन्तरं शौचं सदा कार्यं विधानतः
आत्मज्ञानाम्भसि स्नात्वा सकृदालिप्य भावतः सुवैराग्यमृदा शुद्धः शौचमेवं प्रकीर्तितम्
शुद्धस्य सिद्धयो दृष्टा नैवाशुद्धस्य सिद्धयः न्यायेनागतया वृत्त्या संतुष्टो यस्तु सुव्रतः
संतोषस्तस्य सततम् अतीतार्थस्य चास्मृतिः चान्द्रायणादिनिपुणस् तपांसि सुशुभानि च
स्वाध्यायस्तु जपः प्रोक्तः प्रणवस्य त्रिधा स्मृतः वाचिकश्चाधमो मुख्य उपांशुश्चोत्तमोत्तमः
मानसो विस्तरेणैव कल्पे पञ्चाक्षरे स्मृतः तथा शिवप्रणीधानं मनोवाक्कायकर्मणा
शिवज्ञानं गुरोर्भक्तिर् अचला सुप्रतिष्ठिता निग्रहो ह्यपहृत्याशु प्रसक्तानीन्द्रियाणि च
विषयेषु समासेन प्रत्याहारः प्रकीर्तितः चित्तस्य धारणा प्रोक्ता स्थानबन्धः समासतः
तस्याः स्वास्थ्येन ध्यानं च समाधिश् च विचारतः तत्रैकचित्तता ध्यानं प्रत्ययान्तरवर्जितम्
चिद्भासमर्थमात्रस्य देहशून्यमिव स्थितम् समाधिः सर्वहेतुश् च प्राणायाम इति स्मृतः
प्राणः स्वदेहजो वायुर् यमस्तस्य निरोधनम् त्रिधा द्विजैर्यमः प्रोक्तो मन्दो मध्योत्तमस् तथा
प्राणापाननिरोधस्तु प्राणायामः प्रकीर्तितः प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम्
नीचो द्वादशमात्रस्तु उद्धातो द्वादशः स्मृतः मध्यमस् तु द्विरुद्धातश् चतुर्विंशतिमात्रकः
मुख्यस्तु यस्त्रिरुद्धातः षट्त्रिंशन्मात्र उच्यते प्रस्वेदकम्पनोत्थानजनकश्च यथाक्रमम्
आनन्दोद्भवयोगार्थं निद्राघूर्णिस्तथैव च रोमाञ्चध्वनिसंविद्धस्वाङ्गमोटनकम्पनम्
भ्रमणं स्वेदजन्या सा संविन्मूर्छा भवेद्यदा तदोत्तमोत्तमः प्रोक्तः प्राणायामः सुशोभनः
सगर्भो ऽगर्भ इत्युक्तः सजपो विजपः क्रमात् इभो वा शरभो वापि दुराधर्षो ऽथ केसरी