निमित्तस्थो निमित्तं च नन्दिर् नन्दिकरो हरः नन्दीश्वरः सुनन्दी च नन्दनो विषमर्दनः
भगहारी नियन्ता च कालो लोकपितामहः चतुर्मुखो महालिङ्गश् चारुलिङ्गस्तथैव च
लिङ्गाध्यक्षः सुराध्यक्षः कालाध्यक्षो युगावहः बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः
इतिहासश् च कल्पश् च दमनो जगदीश्वरः दम्भो दम्भकरो दाता वंशो वंशकरः कलिः
लोककर्ता पशुपतिर् महाकर्ता ह्यधोक्षजः अक्षरं परमं ब्रह्म बलवाञ्छुक्त एव च
नित्यो ह्यनीशः शुद्धात्मा शुद्धो मानो गतिर्हविः प्रासादस्तु बलो दर्पो दर्पणो हव्य इन्द्रजित्
वेदकारः सूत्रकारो विद्वांश् च परमर्दनः महामेघनिवासी च महाघोरो वशीकरः
अग्निज्वालो महाज्वालः परिधूम्रावृतो रविः धिषणः शङ्करो नित्यो वर्चस्वी धूम्रलोचनः
नीलस् तथाङ्गलुप्तश् च शोभनो नरविग्रहः स्वस्ति स्वस्तिस्वभावश् च भोगी भोगकरो लघुः
उत्सङ्गश् च महाङ्गश् च महागर्भः प्रतापवान् कृष्णवर्णः सुवर्णश् च इन्द्रियः सर्ववर्णिकः
महापादो महाहस्तो महाकायो महायशाः महामूर्धा महामात्रो महामित्रो नगालयः
महास्कन्धो महाकर्णो महोष्ठश् च महाहनुः महानासो महाकण्ठो महाग्रीवः श्मशानवान्
महाबलो महातेजा ह्य् अन्तरात्मा मृगालयः लम्बितोष्ठश् च निष्ठश् च महामायः पयोनिधिः
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः महानखो महारोमा महाकेशो महाजटः
असपत्नः प्रसादश् च प्रत्ययो गीतसाधकः प्रस्वेदनो ऽस्वेदनश् च आदिकश् च महामुनिः
वृषको वृषकेतुश् च अनलो वायुवाहनः मण्डली मेरुवासश् च देववाहन एव च
अथर्वशीर्षः सामास्य ऋक्सहस्रोर्जितेक्षणः यजुः पादभुजो गुह्यः प्रकाशौजास्तथैव च
अमोघार्थप्रसादश् च अन्तर्भाव्यः सुदर्शनः उपहारः प्रियः सर्वः कनकः काञ्चनस्थितः
नाभिर् नन्दिकरो हर्म्यः पुष्करः स्थपतिः स्थितः सर्वशास्त्रो धनश्चाद्यो यज्ञो यज्वा समाहितः
नगो नीलः कविः कालो मकरः कालपूजितः सगणो गणकारश् च भूतभावनसारथिः
भस्मशायी भस्मगोप्ता भस्मभूततनुर्गणः आगमश् च विलोपश् च महात्मा सर्वपूजितः
शुक्लः स्त्रीरूपसम्पन्नः शुचिर्भूतनिषेवितः आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्विराट्
विशालशाखस् ताम्रोष्ठो ह्य् अम्बुजालः सुनिश्चितः कपिलः कलशः स्थूल आयुधश्चैव रोमशः
गन्धर्वो ह्यदितिस्तार्क्ष्यो ह्य् अविज्ञेयः सुशारदः परश्वधायुधो देवो ह्य् अर्थकारी सुबान्धवः
तुम्बवीणो महाकोप ऊर्ध्वरेता जलेशयः उग्रो वंशकरो वंशो वंशवादी ह्यनिन्दितः
सर्वाङ्गरूपी मायावी सुहृदो ह्यनिलो बलः बन्धनो बन्धकर्ता च सुबन्धनविमोचनः
राक्षसघ्नो ऽथ कामारिर् महादंष्ट्रो महायुधः लम्बितो लम्बितोष्ठश् च लम्बहस्तो वरप्रदः
बाहुस्त्वनिन्दितः सर्वः शङ्करो ऽथाप्यकोपनः अमरेशो महाघोरो विश्वदेवः सुरारिहा
अहिर्बुध्न्यो निरृतिश् च चेकितानो हली तथा अजैकपाच्च कापाली शं कुमारो महागिरिः
धन्वन्तरिर्धूमकेतुः सूर्यो वैश्रवणस् तथा धाता विष्णुश् च शक्रश् च मित्रस्त्वष्टा धरो ध्रुवः