लब्धवान् भगवांश्चक्रं कृष्णः कालाग्निसन्निभम् मनोस्तु प्रथमस्यासन् नव पुत्रास्तु तत्समाः
इक्ष्वाकुर् नभगश् चैव धृष्णुः शर्यातिरेव च नरिष्यन्तश् च वै धीमान् नाभागो ऽरिष्ट एव च
करूषश् च पृषध्रश् च नवैते मानवाः स्मृताः इला ज्येष्ठा वरिष्ठा च पुंस्त्वं प्राप च या पुरा
सुद्युम्न इति विख्याता पुंस्त्वं प्राप्ता त्विला पुरा मित्रावरुणयोस्त्वत्र प्रसादान्मुनिपुङ्गवाः
पुनः शरवणं प्राप्य स्त्रीत्वं प्राप्तो भवाज्ञया सुद्युम्नो मानवः श्रीमान् सोमवंशप्रवृद्धये
इक्ष्वाकोरश्वमेधेन इला किंपुरुषो ऽभवत् इला किंपुरुषत्वे च सुद्युम्न इति चोच्यते
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः इला बुधस्य भवनं सोमपुत्रस्य चाश्रिता
बुधेनान्तरमासाद्य मैथुनाय प्रवर्तिता सोमपुत्राद्बुधाच्चापि ऐलो जज्ञे पुरूरवाः
सोमवंशाग्रजो धीमान् भवभक्तः प्रतापवान् इक्ष्वाकोर्वंशविस्तारं पश्चाद्वक्ष्ये तपोधनाः
पुत्रत्रयमभूत्तस्य सुद्युम्नस्य द्विजोत्तमाः उत्कलश् च गयश्चैव विनताश्वस्तथैव च
उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् गया गयस्य चाख्याता पुरी परमशोभना
सुराणां संस्थितिर्यस्यां पितॄणां च सदा स्थितिः इक्ष्वाकुज्येष्ठदायादो मध्यदेशम् अवाप्तवान्
कन्याभावाच्च सुद्युम्नो नैव भागमवाप्तवान् वसिष्ठवचनात् त्वासीत् प्रतिष्ठाने महाद्युतिः
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः तत्पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः
मानवेयो महाभागः स्त्रीपुंसोर्लक्षणान्वितः इक्ष्वाकोरभवद्वीरो विकुक्षिर्धर्मवित्तमः
ज्येष्ठः पुत्रशतस्यासीद् दश पञ्च च तत्सुताः अभूज्ज्येष्ठः ककुत्स्थश् च ककुत्स्थात्तु सुयोधनः
ततः पृथुर्मुनिश्रेष्ठा विश्वकः पार्थिवस् तथा विश्वकस्यार्द्रको धीमान् युवनाश्वस्तु तत्सुतः
शाबस्तिश् च महातेजा वंशकस्तु ततो ऽभवत् निर्मिता येन शाबस्ती गौडदेशे द्विजोत्तमाः
वंशाच्च बृहदश्वो ऽभूत् कुवलाश्वस्तु तत्सुतः धुन्धुमारत्वमापन्नो धुन्धुं हत्वा महाबलम्
धुन्धुमारस्य तनयास् त्रयस्त्रैलोक्यविश्रुताः दृढाश्वश्चैव चण्डाश्वः कपिलाश्वश् च ते स्मृताः
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य वै सुतः हर्यश्वस्य निकुम्भस्तु संहताश्वस्तु तत्सुतः
कृशाश्वो ऽथ रणाश्वश् च संहताश्वात्मजावुभौ युवनाश्वो रणाश्वस्य मान्धाता तस्य वै सुतः
मान्धातुः पुरुकुत्सो ऽभूद् अम्बरीषश् च वीर्यवान् मुचुकुन्दश् च पुण्यात्मा त्रयस्त्रैलोक्यविश्रुताः
अंबरीषस्य दायादो युवनाश्वो ऽपरः स्मृतः हरितो युवनाश्वस्य हरितास्तु यतः स्मृताः
एते ह्यङ्गिरसः पक्षे क्षत्रोपेता द्विजातयः पुरुकुत्सस्य दायादस् त्रसद्दस्युर् महायशाः
नर्मदायां समुत्पन्नः सम्भूतिस्तस्य चात्मजः विष्णुवृद्धः सुतस्तस्य विष्णुवृद्धा यतः स्मृताः
एते ह्यङ्गिरसः पक्षे क्षत्रोपेताः समाश्रिताः सम्भूतिरपरं पुत्रम् अनरण्यमजीजनत्
रावणेन हतो यो ऽसौ त्रैलोक्यविजये द्विजाः बृहदश्वो ऽनरण्यस्य हर्यश्वस्तस्य चात्मजः
हर्यश्वात्तु दृषद्वत्यां जज्ञे वसुमना नृपः तस्य पुत्रो ऽभवद्राजा त्रिधन्वा भवभावितः
प्रसादाद् ब्रह्मसूनोर् वै तण्डिनः प्राप्य शिष्यताम् अश्वमेधसहस्रस्य फलं प्राप्य तदाज्ञया