हन्यते तात कः केन यतः स्वकृतभुक्पुमान् संचितस्यातिमहता वत्स क्लेशेन मानवैः
यशसस्तपसश्चैव क्रोधो नाशकरः स्मृतः अलं हि राक्षसैर् दग्धैर् दीनैर् अनपराधिभिः
सत्रं ते विरमत्वेतत् क्षमासारा हि साधवः एवं वसिष्ठवाक्येन शाक्तेयो मुनिपुङ्गवः
उपसंहृतवान् सत्रं सद्यस्तद्वाक्यगौरवात् ततः प्रीतश् च भगवान् वसिष्ठो मुनिसत्तमः
सम्प्राप्तश् च तदा सत्रं पुलस्त्यो ब्रह्मणः सुतः वसिष्ठेन तु दत्तार्घ्यः कृतासनपरिग्रहः
पराशरमुवाचेदं प्रणिपत्य स्थितं मुनिः वैरे महति यद्वाक्याद् गुरोर् अद्याश्रिता क्षमा
त्वया तस्मात्समस्तानि भवाञ्छास्त्राणि वेत्स्यति संततेर्मम न छेदः क्रुद्धेनापि यतः कृतः
त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् पुराणसंहिताकर्ता भवान्वत्स भविष्यति
देवतापरमार्थं च यथावद्वेत्स्यते भवान् प्रवृत्तौ वा निवृत्तौ वा कर्मणस् ते ऽमला मतिः
मत्प्रसादादसंदिग्धा तव वत्स भविष्यति ततश् च प्राह भगवान् वसिष्ठो वदतां वरः
पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति अथ तस्य पुलस्त्यस्य वसिष्ठस्य च धीमतः
प्रसादाद्वैष्णवं चक्रे पुराणं वै पराशरः षट्प्रकारं समस्तार्थसाधकं ज्ञानसंचयम्
षट्साहस्रमितं सर्वं वेदार्थेन च संयुतम् चतुर्थं हि पुराणानां संहितासु सुशोभनम्
एष वः कथितः सर्वो वासिष्ठानां समासतः प्रभवः शक्तिसूनोश् च प्रभावो मुनिपुङ्गवाः
आदित्यवंशं सोमस्य वंशं वंशविदां वर वक्तुमर्हसि चास्माकं संक्षेपाद् रोमहर्षण
अदितिः सुषुवे पुत्रम् आदित्यं कश्यपाद्द्विजाः तस्यादित्यस्य चैवासीद् भार्या त्रयम् अथापरम्
संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां वदामि वः संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम्
यमं च यमुनां चैव राज्ञी रेवतमेव च प्रभा प्रभातम् आदित्याच् छायां संज्ञाप्यकल्पयत्
छाया च तस्मात्सुषुवे सावर्णिं भास्कराद्द्विजाः ततः शनिं च तपतीं विष्टिं चैव यथाक्रमम्
छाया स्वपुत्राभ्यधिकं स्नेहं चक्रे मनौ तदा पूर्वो मनुर्न चक्षाम यमस्तु क्रोधमूर्छितः
संताडयामास रुषा पादमुद्यम्य दक्षिणम् यमेन ताडिता सा तु छाया वै दुःखिताभवत्
छायाशापात् पदं चैकं यमस्य क्लिन्नमुत्तमम् पूयशोणितसम्पूर्णं कृमीणां निचयान्वितम्
सो ऽपि गोकर्णमाश्रित्य फलकेनानिलाशनः आराधयन्महादेवं यावद्वर्षायुतायुतम्
भवप्रसादाद् आगत्य लोकपालत्वमुत्तमम् पितॄणामाधिपत्यं तु शापमोक्षं तथैव च
लब्धवान्देवदेवस्य प्रभावाच्छूलपाणिनः असहन्ती पुरा भानोस् तेजोमयम् अनिन्दिता
रूपं त्वाष्ट्री स्वदेहात्तु छायाख्यां सा त्वकल्पयत् वडवारूपमास्थाय तपस्तेपे तु सुव्रता
कालात्प्रयत्नतो ज्ञात्वा छायां छायापतिः प्रभुः वडवामगमत्संज्ञाम् अश्वरूपेण भास्करः
वडवा च तदा त्वाष्ट्री संज्ञा तस्माद्दिवाकरात् सुषुवे चाश्विनौ देवौ देवानां तु भिषग्वरौ
लिखितो भास्करः पश्चात् संज्ञापित्रा महात्मना विष्णोश्चक्रं तु यद्घोरं मण्डलाद्भास्करस्य तु
निर्ममे भगवांस्त्वष्टा प्रधानं दिव्यमायुधम् रुद्रप्रसादाच्च शुभं सुदर्शनमिति स्मृतम्