पुनर्भवान्याः पादौ च नन्दिनश् च महात्मनः सफलं जीवितं मे ऽद्य ब्रह्माद्यांस्तांस्तदाह सः
रक्षार्थमागतस्त्वद्य मम बालेन्दुभूषणः को ऽन्यः समो मया लोके देवो वा दानवो ऽपि वा
अथ तस्मिन्क्षणादेव ददर्श दिवि संस्थितम् पितरं भ्रातृभिः सार्धं शाक्तेयस्तु पराशरः
सूर्यमण्डलसंकाशे विमाने विश्वतोमुखे भ्रातृभिः सहितं दृष्ट्वा ननाम च जहर्ष च
तदा वृषध्वजो देवः सभार्यः सगणेश्वरः वसिष्ठपुत्रं प्राहेदं पुत्रदर्शनतत्परम्
शक्ते पश्य सुतं बालम् आनन्दास्राविलेक्षणम् अदृश्यन्तीं च विप्रेन्द्र वसिष्ठं पितरं तव
अरुन्धतीं महाभागां कल्याणीं देवतोपमाम् मातरं पितरं चोभौ नमस्कुरु महामते
तदा हरं प्रणम्याशु देवदेवमुमां तथा वसिष्ठं च तदा श्रेष्ठं शक्तिर् वै शङ्कराज्ञया
मातरं च महाभागां कल्याणीं पतिदेवताम् अरुन्धतीं जगन्नाथनियोगात्प्राह शक्तिमान्
भो वत्स वत्स विप्रेन्द्र पराशर महाद्युते रक्षितो ऽहं त्वया तात गर्भस्थेन महात्मना
अणिमादिगुणैश्वर्यं मया वत्स पराशर लब्धमद्याननं दृष्टं तव बाल ममाज्ञया
अदृश्यन्तीं महाभागां रक्ष वत्स महामते अरुन्धतीं च पितरं वसिष्ठं मम सर्वदा
अन्वयः सकलो वत्स मम संतारितस्त्वया पुत्रेण लोकाञ्जयतीत्य् उक्तं सद्भिः सदैव हि
ईप्सितं वरयेशानं जगतां प्रभवं प्रभुम् गमिष्याम्यभिवन्द्येशं भ्रातृभिः सह शङ्करम्
एवं पुत्रमुपामन्त्र्य प्रणम्य च महेश्वरम् निरीक्ष्य भार्यां सदसि जगाम पितरं वशी
गतं दृष्ट्वाथ पितरं तदाभ्यर्च्यैव शङ्करम् तुष्टाव वाग्भिर् इष्टाभिः शाक्तेयः शशिभूषणम्
ततस्तुष्टो महादेवो मन्मथान्धकमर्दनः अनुगृह्याथ शाक्तेयं तत्रैवान्तरधीयत
गते महेश्वरे सांबे प्रणम्य च महेश्वरम् ददाह राक्षसानां तु कुलं मन्त्रेण मन्त्रवित्
तदाह पौत्रं धर्मज्ञो वसिष्ठो मुनिभिर् वृतः अलम् अत्यन्तकोपेन तात मन्युमिमं जहि
राक्षसा नापराध्यन्ति पितुस् ते विहितं तथा मूढानामेव भवति क्रोधो बुद्धिमतां न हि
हन्यते तात कः केन यतः स्वकृतभुक्पुमान् संचितस्यातिमहता वत्स क्लेशेन मानवैः
यशसस्तपसश्चैव क्रोधो नाशकरः स्मृतः अलं हि राक्षसैर् दग्धैर् दीनैर् अनपराधिभिः
सत्रं ते विरमत्वेतत् क्षमासारा हि साधवः एवं वसिष्ठवाक्येन शाक्तेयो मुनिपुङ्गवः
उपसंहृतवान् सत्रं सद्यस्तद्वाक्यगौरवात् ततः प्रीतश् च भगवान् वसिष्ठो मुनिसत्तमः
सम्प्राप्तश् च तदा सत्रं पुलस्त्यो ब्रह्मणः सुतः वसिष्ठेन तु दत्तार्घ्यः कृतासनपरिग्रहः
पराशरमुवाचेदं प्रणिपत्य स्थितं मुनिः वैरे महति यद्वाक्याद् गुरोर् अद्याश्रिता क्षमा
त्वया तस्मात्समस्तानि भवाञ्छास्त्राणि वेत्स्यति संततेर्मम न छेदः क्रुद्धेनापि यतः कृतः
त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् पुराणसंहिताकर्ता भवान्वत्स भविष्यति
देवतापरमार्थं च यथावद्वेत्स्यते भवान् प्रवृत्तौ वा निवृत्तौ वा कर्मणस् ते ऽमला मतिः
मत्प्रसादादसंदिग्धा तव वत्स भविष्यति ततश् च प्राह भगवान् वसिष्ठो वदतां वरः