सा निशम्य वचनं तदा शुभं सस्मिता तनयमाह विस्मिता तथ्यम् एतदिति तं निरीक्ष्य सा पुत्र पुत्र भवमर्चयेति च
ज्ञात्वा शक्तिसुतस्यास्य संकल्पं मुनिपुङ्गवः वसिष्ठो भगवान्प्राह पौत्रं धीमान् घृणानिधिः
स्थाने पौत्र मुनिश्रेष्ठ संकल्पस्तव सुव्रत तथापि शृणु लोकस्य क्षयं कर्तुं न चार्हसि
राक्षसानामभावाय कुरु सर्वेश्वरार्चनम् त्रैलोक्यं शृणु शाक्तेय अपराध्यति किं तव
ततस्तस्य वसिष्ठस्य नियोगाच्छक्तिनन्दनः राक्षसानामभावाय मतिं चक्रे महामतिः
अदृश्यन्तीं वसिष्ठं च प्रणम्यारुन्धतीं ततः कृत्वैकलिङ्गं क्षणिकं पांसुना मुनिसन्निधौ
सम्पूज्य शिवसूक्तेन त्र्यंबकेन शुभेन च जप्त्वा त्वरितरुद्रं च शिवसंकल्पमेव च
नीलरुद्रं च शाक्तेयस् तथा रुद्रं च शोभनम् वामीयं पवमानं च पञ्चब्रह्म तथैव च
होतारं लिङ्गसूक्तं च अथर्वशिर एव च अष्टाङ्गमर्घ्यं रुद्राय दत्त्वाभ्यर्च्य यथाविधि
भगवन्रक्षसा रुद्र भक्षितो रुधिरेण वै पिता मम महातेजा भ्रातृभिः सह शङ्कर
द्रष्टुमिच्छामि भगवन् पितरं भ्रातृभिः सह एवं विज्ञापयांल्लिङ्गं प्रणिपत्य मुहुर्मुहुः
हा रुद्र रुद्र रुद्रेति रुरोद निपपात च तं दृष्ट्वा भगवान्रुद्रो देवीमाह च शङ्करः
पश्य बालं महाभागे बाष्पपर्याकुलेक्षणम् ममानुस्मरणे युक्तं मदाराधनतत्परम्
सा च दृष्ट्वा महादेवी पराशरमनिन्दिता दुःखात् संक्लिन्नसर्वाङ्गम् अस्राकुलविलोचनम्
लिङ्गार्चनविधौ सक्तं हर रुद्रेति वादिनम् प्राह भर्तारमीशानं शङ्करं जगतामुमा
ईप्सितं यच्छ सकलं प्रसीद परमेश्वर निशम्य वचनं तस्याः शङ्करः परमेश्वरः
भार्यामार्यामुमां प्राह ततो हालाहलाशनः रक्षाम्येनं द्विजं बालं फुल्लेन्दीवरलोचनम्
ददामि दृष्टिं मद्रूपदर्शनक्षम एष वै एवमुक्त्वा गणैर् दिव्यैर् भगवान्नीललोहितः
ब्रह्मेन्द्रविष्णुरुद्राद्यैः संवृतः परमेश्वरः ददौ च दर्शनं तस्मै मुनिपुत्राय धीमते
सो ऽपि दृष्ट्वा महादेवम् आनन्दास्राविलेक्षणः निपपात च हृष्टात्मा पादयोस्तस्य सादरम्
पुनर्भवान्याः पादौ च नन्दिनश् च महात्मनः सफलं जीवितं मे ऽद्य ब्रह्माद्यांस्तांस्तदाह सः
रक्षार्थमागतस्त्वद्य मम बालेन्दुभूषणः को ऽन्यः समो मया लोके देवो वा दानवो ऽपि वा
अथ तस्मिन्क्षणादेव ददर्श दिवि संस्थितम् पितरं भ्रातृभिः सार्धं शाक्तेयस्तु पराशरः
सूर्यमण्डलसंकाशे विमाने विश्वतोमुखे भ्रातृभिः सहितं दृष्ट्वा ननाम च जहर्ष च
तदा वृषध्वजो देवः सभार्यः सगणेश्वरः वसिष्ठपुत्रं प्राहेदं पुत्रदर्शनतत्परम्
शक्ते पश्य सुतं बालम् आनन्दास्राविलेक्षणम् अदृश्यन्तीं च विप्रेन्द्र वसिष्ठं पितरं तव
अरुन्धतीं महाभागां कल्याणीं देवतोपमाम् मातरं पितरं चोभौ नमस्कुरु महामते
तदा हरं प्रणम्याशु देवदेवमुमां तथा वसिष्ठं च तदा श्रेष्ठं शक्तिर् वै शङ्कराज्ञया
मातरं च महाभागां कल्याणीं पतिदेवताम् अरुन्धतीं जगन्नाथनियोगात्प्राह शक्तिमान्
भो वत्स वत्स विप्रेन्द्र पराशर महाद्युते रक्षितो ऽहं त्वया तात गर्भस्थेन महात्मना