जगुस्तदा च पितरो ननृतुश् च पितामहाः प्रपितामहाश् च विप्रेन्द्रा ह्य् अवतीर्णे पराशरे
ये ब्रह्मवादिनो भूमौ ननृतुर् दिवि देवताः पुष्कराद्याश् च ससृजुः पुष्पवर्षं च खेचराः
पुरेषु राक्षसानां च प्रणादं विषमं द्विजाः आश्रमस्थाश् च मुनयः समूहुर्हर्षसंततिम्
अवतीर्णो यथा ह्यण्डाद् भानुः सो ऽपि पराशरः अदृश्यन्त्याश्चतुर्वक्त्रो मेघजालाद्दिवाकरः
सुखं च दुःखमभवद् अदृश्यन्त्यास्तथा द्विजाः दृष्ट्वा पुत्रं पतिं स्मृत्वा अरुन्धत्या मुनेस्तथा
दृष्ट्वा च तनयं बाला पराशरमतिद्युतिम् ललाप विह्वला बाला सन्नकण्ठी पपात च
सा पराशरमहो महामतिं देवदानवगणैश् च पूजितम् जातमात्रम् अनघं शुचिस्मिता बुध्य साश्रुनयना ललाप च
हा वसिष्ठसुत कुत्रचिद्गतः पश्य पुत्रमनघं तवात्मजम् त्यज्य दीनवदनां वनान्तरे पुत्रदर्शनपरामिमां प्रभो
शक्ते स्वं च सुतं पश्य भ्रातृभिः सह षण्मुखम् यथा महेश्वरो ऽपश्यत् सगणो हृषिताननः
अथ तस्यास्तदालापं वसिष्ठो मुनिसत्तमः श्रुत्वा स्नुषामुवाचेदं मा रोदीर् इति दुःखितः
आज्ञया तस्य सा शोकं वसिष्ठस्य कुलाङ्गना त्यक्त्वा ह्यपालयद्बालं बाला बालमृगेक्षणा
दृष्ट्वा तामबलां प्राह मङ्गलाभरणैर् विना आसीनामाकुलां साध्वीं बाष्पपर्याकुलेक्षणाम्
अम्ब मङ्गलविभूषणैर् विना देहयष्टिरनघे न शोभते वक्तुमर्हसि तवाद्य कारणं चन्द्रबिंबरहितेव शर्वरी
मातर्मातः कथं त्यक्त्वा मङ्गलाभरणानि वै आसीना भर्तृहीनेव वक्तुमर्हसि शोभने
अदृश्यन्ती तदा वाक्यं श्रुत्वा तस्य सुतस्य सा न किंचिद् अब्रवीत् पुत्रं शुभं वा यदि वेतरत्
अदृश्यन्तीं पुनः प्राह शाक्तेयो भगवान्मम मातः कुत्र महातेजाः पिता वद वदेति ताम्
श्रुत्वा रुरोद सा वाक्यं पुत्रस्यातीव विह्वला भक्षितो रक्षसा तातस् तवेति निपपात च
श्रुत्वा वसिष्ठो ऽपि पपात भूमौ पौत्रस्य वाक्यं स रुदन्दयालुः अरुन्धती चाश्रमवासिनस्तदा मुनेर्वसिष्ठस्य मुनीश्वराश् च
भक्षितो रक्षसा मातुः पिता तव मुखादिति श्रुत्वा पराशरो धीमान् प्राह चास्राविलेक्षणः
अभ्यर्च्य देवदेवेशं त्रैलोक्यं सचराचरम् क्षणेन मातः पितरं दर्शयामीति मे मतिः
सा निशम्य वचनं तदा शुभं सस्मिता तनयमाह विस्मिता तथ्यम् एतदिति तं निरीक्ष्य सा पुत्र पुत्र भवमर्चयेति च
ज्ञात्वा शक्तिसुतस्यास्य संकल्पं मुनिपुङ्गवः वसिष्ठो भगवान्प्राह पौत्रं धीमान् घृणानिधिः
स्थाने पौत्र मुनिश्रेष्ठ संकल्पस्तव सुव्रत तथापि शृणु लोकस्य क्षयं कर्तुं न चार्हसि
राक्षसानामभावाय कुरु सर्वेश्वरार्चनम् त्रैलोक्यं शृणु शाक्तेय अपराध्यति किं तव
ततस्तस्य वसिष्ठस्य नियोगाच्छक्तिनन्दनः राक्षसानामभावाय मतिं चक्रे महामतिः
अदृश्यन्तीं वसिष्ठं च प्रणम्यारुन्धतीं ततः कृत्वैकलिङ्गं क्षणिकं पांसुना मुनिसन्निधौ
सम्पूज्य शिवसूक्तेन त्र्यंबकेन शुभेन च जप्त्वा त्वरितरुद्रं च शिवसंकल्पमेव च
नीलरुद्रं च शाक्तेयस् तथा रुद्रं च शोभनम् वामीयं पवमानं च पञ्चब्रह्म तथैव च
होतारं लिङ्गसूक्तं च अथर्वशिर एव च अष्टाङ्गमर्घ्यं रुद्राय दत्त्वाभ्यर्च्य यथाविधि
भगवन्रक्षसा रुद्र भक्षितो रुधिरेण वै पिता मम महातेजा भ्रातृभिः सह शङ्कर