सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकंधरः प्लक्षो दाल्भ्यायणिश्चैव केतुमान् गोपनस् तथा
भल्लावी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः उशिको बृहदश्वश् च देवलः कविरेव च
शालिहोत्रो ऽग्निवेशश्च युवनाश्वः शरद्वसुः छगलः कुण्डकर्णश् च कुम्भश्चैव प्रवाहकः
उलूको विद्युतश्चैव मण्डूको ह्याश्वलायनः अक्षपादः कुमारश् च उलूको वत्स एव च
कुशिकश्चैव गर्भश् च मित्रः कौरुष्य एव च शिष्यास्त्वेते महात्मानः सर्वावर्तेषु योगिनाम्
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः
शिष्याः प्रशिष्याश्चैतेषां शतशो ऽथ सहस्रशः प्राप्य पाशुपतं योगं रुद्रलोकाय संस्थिताः
देवादयः पिशाचान्ताः पशवः परिकीर्तिताः तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः
तेन प्रणीतो रुद्रेण पशूनां पतिना द्विजाः योगः पाशुपतो ज्ञेयः परावरविभूतये
संक्षेपतः प्रवक्ष्यामि योगस्थानानि साम्प्रतम् कल्पितानि शिवेनैव हिताय जगतां द्विजाः
गलादधो वितस्त्या यन् नाभेरुपरि चोत्तमम् योगस्थानमधो नाभेर् आवर्तं मध्यमं भ्रुवोः
सर्वार्थज्ञाननिष्पत्तिर् आत्मनो योग उच्यते एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः
प्रसादस्य स्वरूपं यत् स्वसंवेद्यं द्विजोत्तमाः वक्तुं न शक्यं ब्रह्माद्यैः क्रमशो जायते नृणाम्
योगशब्देन निर्वाणं माहेशं पदमुच्यते तस्य हेतुरृषेर्ज्ञानं ज्ञानं तस्य प्रसादतः
ज्ञानेन निर्दहेत्पापं निरुध्य विषयान् सदा निरुद्धेन्द्रियवृत्तेस्तु योगसिद्धिर्भविष्यति
योगो निरोधो वृत्तेषु चित्तस्य द्विजसत्तमाः साधनान्यष्टधा चास्य कथितानीह सिद्धये
यमस्तु प्रथमः प्रोक्तो द्वितीयो नियमस् तथा तृतीयमासनं प्रोक्तं प्राणायामस्ततः परम्
प्रत्याहारं पञ्चमो वै धारणा च ततः परा ध्यानं सप्तममित्युक्तं समाधिस्त्वष्टमः स्मृतः
तपस्युपरमश्चैव यम इत्यभिधीयते अहिंसा प्रथमो हेतुर् यमस्य यमिनां वराः
सत्यमस्तेयमपरं ब्रह्मचर्यापरिग्रहौ नियमस्यापि वै मूलं यम एव न संशयः
आत्मवत् सर्वभूतानां हितायैव प्रवर्तनम् अहिंसैषा समाख्याता या चात्मज्ञानसिद्धिदा
दृष्टं श्रुतं चानुमितं स्वानुभूतं यथार्थतः कथनं सत्यमित्युक्तं परपीडाविवर्जितम्
नाश्लीलं कीर्तयेदेवं ब्राह्मणानामिति श्रुतिः परदोषान् परिज्ञाय न वदेदिति चापरम्
अनादानं परस्वानाम् आपद्यपि विचारतः मनसा कर्मणा वाचा तदस्तेयं समासतः
मैथुनस्याप्रवृत्तिर्हि मनोवाक्कायकर्मणा ब्रह्मचर्यमिति प्रोक्तं यतीनां ब्रह्मचारिणाम्
इह वैखानसानां च विदाराणां विशेषतः सदाराणां गृहस्थानं तथैव च वदामि वः
स्वदारे विधिवत्कृत्वा निवृत्तिश्चान्यतः सदा मनसा कर्मणा वाचा ब्रह्मचर्यमिति स्मृतम्
मेध्या स्वनारी सम्भोगं कृत्वा स्नानं समाचरेत् एवं गृहस्थो युक्तात्मा ब्रह्मचारी न संशयः
अहिंसाप्येवमेवैषा द्विजगुर्वग्निपूजने विधिना यादृशी हिंसा सा त्वहिंसा इति स्मृता
स्त्रियः सदा परित्याज्याः सङ्गं नैव च कारयेत् कुणपेषु यथा चित्तं तथा कुर्याद्विचक्षणः