समुत्थाप्य स्नुषां बालाम् ऊचतुर्भयविह्वलौ
विचारमुग्धे तव गर्भमण्डलं करांबुजाभ्यां विनिहत्य दुर्लभम् कुलं वसिष्ठस्य समस्तमप्यहो निहन्तुमार्ये कथमुद्यता वद
तवात्मजं शक्तिसुतं च दृष्ट्वा चास्वाद्य वक्त्रामृतम् आर्यसूनोः त्रातुं यतो देहमिमं मुनीन्द्रः सुनिश्चितः पाहि ततः शरीरम्
एवं स्नुषामुपालभ्य मुनिं चारुन्धती स्थिता अरुन्धती वसिष्ठस्य प्राह चार्तेति विह्वला
त्वय्येव जीवितं चास्य मुनेर् यत् सुव्रते मम जीवितं रक्ष देहस्य धात्री च कुरु यद्धितम्
मया यदि मुनिश्रेष्ठस् त्रातुं वै निश्चितं स्वकम् ममाशुभं शुभं देहं कथंचित् पालयाम्यहम्
प्रियदुःखमहं प्राप्ता ह्य् असती नात्र संशयः मुने दुःखादहं दग्धा यतः पुत्री मुने तव
अहो ऽद्भुतं मया दृष्टं दुःखपात्री ह्यहं विभो दुःखत्राता भव ब्रह्मन् ब्रह्मसूनो जगद्गुरो
तथापि भर्तृरहिता दीना नारी भवेदिह पाहि मां तत आर्येन्द्र परिभूता भविष्यति
पिता माता च पुत्राश्च पौत्राः श्वशुर एव च एते न बान्धवाः स्त्रीणां भर्ता बन्धुः परा गतिः
आत्मनो यद्धि कथितम् अप्यर्धमिति पण्डितैः तदप्यत्र मृषा ह्यासीद् गतः शक्तिरहं स्थिता
अहो ममात्र काठिन्यं मनसो मुनिपुङ्गव पतिं प्राणसमं त्यक्त्वा स्थिता यत्र क्षणं यतः
वसिष्ठाश्वत्थमाश्रित्य ह्य् अमृता तु यथा लता निर्मूलाप्यमृता भर्त्रा त्यक्ता दीना स्थिताप्यहम्
स्नुषावाक्यं निशम्यैव वसिष्ठो भार्यया सह तदा चक्रे मतिं धीमान् यातुं स्वाश्रममाश्रमी
कृच्छ्रात्सभार्यो भगवान् वसिष्ठः स्वाश्रमं क्षणात् अदृश्यन्त्या च पुण्यात्मा संविवेश स चिन्तयन्
सा गर्भं पालयामास कथंचिन्मुनिपुङ्गवाः कुलसंधारणार्थाय शक्तिपत्नी पतिव्रता
ततः सासूत तनयं दशमे मासि सुप्रभम् शक्तिपत्नी यथा शक्तिं शक्तिमन्तमरुन्धती
असूत सा दितिर्विष्णुं यथा स्वाहा गुहं सुतम् अग्निं यथारणिः पत्नी शक्तेः साक्षात्पराशरम्
यदा तदा शक्तिसूनुर् अवतीर्णो महीतले शक्तिस्त्यक्त्वा तदा दुःखं पितॄणां समतां ययौ
भ्रातृभिः सह पुण्यात्मा आदित्यैर् इव भास्करः रराज पितृलोकस्थो वासिष्ठो मुनिपुङ्गवाः
जगुस्तदा च पितरो ननृतुश् च पितामहाः प्रपितामहाश् च विप्रेन्द्रा ह्य् अवतीर्णे पराशरे
ये ब्रह्मवादिनो भूमौ ननृतुर् दिवि देवताः पुष्कराद्याश् च ससृजुः पुष्पवर्षं च खेचराः
पुरेषु राक्षसानां च प्रणादं विषमं द्विजाः आश्रमस्थाश् च मुनयः समूहुर्हर्षसंततिम्
अवतीर्णो यथा ह्यण्डाद् भानुः सो ऽपि पराशरः अदृश्यन्त्याश्चतुर्वक्त्रो मेघजालाद्दिवाकरः
सुखं च दुःखमभवद् अदृश्यन्त्यास्तथा द्विजाः दृष्ट्वा पुत्रं पतिं स्मृत्वा अरुन्धत्या मुनेस्तथा
दृष्ट्वा च तनयं बाला पराशरमतिद्युतिम् ललाप विह्वला बाला सन्नकण्ठी पपात च
सा पराशरमहो महामतिं देवदानवगणैश् च पूजितम् जातमात्रम् अनघं शुचिस्मिता बुध्य साश्रुनयना ललाप च
हा वसिष्ठसुत कुत्रचिद्गतः पश्य पुत्रमनघं तवात्मजम् त्यज्य दीनवदनां वनान्तरे पुत्रदर्शनपरामिमां प्रभो
शक्ते स्वं च सुतं पश्य भ्रातृभिः सह षण्मुखम् यथा महेश्वरो ऽपश्यत् सगणो हृषिताननः
अथ तस्यास्तदालापं वसिष्ठो मुनिसत्तमः श्रुत्वा स्नुषामुवाचेदं मा रोदीर् इति दुःखितः