भो वत्स वत्स विप्रेन्द्र वसिष्ठ सुतवत्सल तव पौत्रमुखाम्भोजाद् ऋग् एषाद्य विनिःसृता
मत्समस्तव पौत्रो ऽसौ शक्तिजः शक्तिमान्मुने तस्मादुत्तिष्ठ संत्यज्य शोकं ब्रह्मसुतोत्तम
रुद्रभक्तश् च गर्भस्थो रुद्रपूजापरायणः रुद्रदेवप्रभावेण कुलं ते संतरिष्यति
एवमुक्त्वा घृणी विप्रं भगवान् पुरुषोत्तमः वसिष्ठं मुनिशार्दूलं तत्रैवान्तरधीयत
ततः प्रणम्य शिरसा वसिष्ठो वारिजेक्षणम् अदृश्यन्त्या महातेजाः पस्पर्शोदरमादरात्
हा पुत्र पुत्र पुत्रेति पपात च सुदुःखितः ललापारुन्धती प्रेक्ष्य तदासौ रुदतीं द्विजाः
स्वपुत्रं च स्मरन् दुःखात् पुनरेह्येहि पुत्रक तव पुत्रमिमं दृष्ट्वा भो शक्ते कुलधारणम्
तवान्तिकं गमिष्यामि तव मात्रा न संशयः एवमुक्त्वा रुदन्विप्र आलिङ्ग्यारुन्धतीं तदा
पपात ताडयन्तीव स्वस्य कुक्षी करेण वै अदृश्यन्ती जघानाथ शक्तिजस्यालयं शुभा
स्वोदरं दुःखिता भूमौ ललाप च पपात च अरुन्धति तदा भीता वसिष्ठश् च महामतिः
समुत्थाप्य स्नुषां बालाम् ऊचतुर्भयविह्वलौ
विचारमुग्धे तव गर्भमण्डलं करांबुजाभ्यां विनिहत्य दुर्लभम् कुलं वसिष्ठस्य समस्तमप्यहो निहन्तुमार्ये कथमुद्यता वद
तवात्मजं शक्तिसुतं च दृष्ट्वा चास्वाद्य वक्त्रामृतम् आर्यसूनोः त्रातुं यतो देहमिमं मुनीन्द्रः सुनिश्चितः पाहि ततः शरीरम्
एवं स्नुषामुपालभ्य मुनिं चारुन्धती स्थिता अरुन्धती वसिष्ठस्य प्राह चार्तेति विह्वला
त्वय्येव जीवितं चास्य मुनेर् यत् सुव्रते मम जीवितं रक्ष देहस्य धात्री च कुरु यद्धितम्
मया यदि मुनिश्रेष्ठस् त्रातुं वै निश्चितं स्वकम् ममाशुभं शुभं देहं कथंचित् पालयाम्यहम्
प्रियदुःखमहं प्राप्ता ह्य् असती नात्र संशयः मुने दुःखादहं दग्धा यतः पुत्री मुने तव
अहो ऽद्भुतं मया दृष्टं दुःखपात्री ह्यहं विभो दुःखत्राता भव ब्रह्मन् ब्रह्मसूनो जगद्गुरो
तथापि भर्तृरहिता दीना नारी भवेदिह पाहि मां तत आर्येन्द्र परिभूता भविष्यति
पिता माता च पुत्राश्च पौत्राः श्वशुर एव च एते न बान्धवाः स्त्रीणां भर्ता बन्धुः परा गतिः
आत्मनो यद्धि कथितम् अप्यर्धमिति पण्डितैः तदप्यत्र मृषा ह्यासीद् गतः शक्तिरहं स्थिता
अहो ममात्र काठिन्यं मनसो मुनिपुङ्गव पतिं प्राणसमं त्यक्त्वा स्थिता यत्र क्षणं यतः
वसिष्ठाश्वत्थमाश्रित्य ह्य् अमृता तु यथा लता निर्मूलाप्यमृता भर्त्रा त्यक्ता दीना स्थिताप्यहम्
स्नुषावाक्यं निशम्यैव वसिष्ठो भार्यया सह तदा चक्रे मतिं धीमान् यातुं स्वाश्रममाश्रमी
कृच्छ्रात्सभार्यो भगवान् वसिष्ठः स्वाश्रमं क्षणात् अदृश्यन्त्या च पुण्यात्मा संविवेश स चिन्तयन्
सा गर्भं पालयामास कथंचिन्मुनिपुङ्गवाः कुलसंधारणार्थाय शक्तिपत्नी पतिव्रता
ततः सासूत तनयं दशमे मासि सुप्रभम् शक्तिपत्नी यथा शक्तिं शक्तिमन्तमरुन्धती
असूत सा दितिर्विष्णुं यथा स्वाहा गुहं सुतम् अग्निं यथारणिः पत्नी शक्तेः साक्षात्पराशरम्
यदा तदा शक्तिसूनुर् अवतीर्णो महीतले शक्तिस्त्यक्त्वा तदा दुःखं पितॄणां समतां ययौ
भ्रातृभिः सह पुण्यात्मा आदित्यैर् इव भास्करः रराज पितृलोकस्थो वासिष्ठो मुनिपुङ्गवाः