द्वैपायनो ह्यरण्यां वै शुकम् उत्पादयत्सुतम् उपमन्युं च पीवर्यां विद्धीमे शुकसूनवः
भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरस्तु पञ्चमः कन्या कीर्तिमती चैव योगमाता धृतव्रता
जननी ब्रह्मदत्तस्य पत्नी सा त्वनुहस्य च श्वेतः कृष्णश् च गौरश् च श्यामो धूम्रस्तथारुणः
नीलो बादरिकश्चैव सर्वे चैते पराशराः पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम्
अत ऊर्ध्वं निबोधध्वम् इन्द्रप्रमितिसंभवम् वसिष्ठस्य कपिञ्जल्यो घृताच्यामुदपद्यत
त्रिमूर्तिर्यः समाख्यात इन्द्रप्रमितिरुच्यते पृथोः सुतायां सम्भूतो भद्रस्तस्या भवद्वसुः
उपमन्युः सुतस्तस्य बहवो ह्यौपमन्यवः मित्रावरुणयोश्चैव कौण्डिन्या ये परिश्रुताः
एकार्षेयास् तथा चान्ये वासिष्ठा नाम विश्रुताः एते पक्षा वसिष्ठानां स्मृता दश महात्मनाम्
इत्येते ब्रह्मणः पुत्रा मानसा विश्रुता भुवि भर्तारश् च महाभागा एषां वंशाः प्रकीर्तिताः
त्रिलोकधारणे शक्ता देवर्षिकुलसंभवाः तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः
यैस्तु व्याप्तास्त्रयो लोकाः सूर्यस्येव गभस्तिभिः
कथं हि रक्षसा शक्तिर् भक्षितः सो ऽनुजैः सह वासिष्ठो वदतां श्रेष्ठ सूत वक्तुमिहार्हसि
राक्षसो रुधिरो नाम वसिष्ठस्य सुतं पुरा शक्तिं स भक्षयामास शक्तेः शापात्सहानुजैः
वसिष्ठयाज्यं विप्रेन्द्रास् तदादिश्यैव भूपतिम् कल्माषपादं रुधिरो विश्वामित्रेण चोदितः
भक्षितः स इति श्रुत्वा वसिष्ठस्तेन रक्षसा शक्तिः शक्तिमतां श्रेष्ठो भ्रातृभिः सह धर्मवित्
हा पुत्र पुत्र पुत्रेति क्रन्दमानो मुहुर्मुहुः अरुन्धत्या सह मुनिः पपात भुवि दुःखितः
नष्टं कुलमिति श्रुत्वा मर्तुं चक्रे मतिं तदा स्मरन्पुत्रशतं चैव शक्तिज्येष्ठं च शक्तिमान्
न तं विनाहं जीविष्ये इति निश्चित्य दुःखितः
आरुह्य मूर्धानम् अजात्मजो ऽसौ तयात्मवान् सर्वविद् आत्मविच्च धराधरस्यैव तदा धरायां पपात पत्न्या सह साश्रुदृष्टिः
धराधरात्तं पतितं धरा तदा दधार तत्रापि विचित्रकण्ठी करांबुजाभ्यां करिखेलगामिनी रुदन्तमादाय रुरोद सा च
तदा तस्य स्नुषा प्राह पत्नी शक्तेर्महामुनिम् वसिष्ठं वदतां श्रेष्ठं रुदन्ती भयविह्वला
भगवन्ब्राह्मणश्रेष्ठ तव देहम् इदं शुभम् पालयस्व विभो द्रष्टुं तव पौत्रं ममात्मजम्
न त्याज्यं तव विप्रेन्द्र देहमेतत्सुशोभनम् गर्भस्थो मम सर्वार्थसाधकः शक्तिजो यतः
एवमुक्त्वाथ धर्मज्ञा कराभ्यां कमलेक्षणा उत्थाप्य श्वशुरं नत्वा नेत्रे संमृज्य वारिणा
दुःखितापि परित्रातुं श्वशुरं दुःखितं तदा अरुन्धतीं च कल्याणीं प्रार्थयामास दुःखिताम्
स्नुषावाक्यं ततः श्रुत्वा वसिष्ठ उत्थाय भूतलात् संज्ञामवाप्य चालिङ्ग्य सा पपात सुदुःखिता
अरुन्धती कराभ्यां तां संस्पृश्यास्राकुलेक्षणाम् रुरोद मुनिशार्दूलो भार्यया सुतवत्सलः
अथ नाभ्यंबुजे विष्णोर् यथा तस्याश्चतुर्मुखः आसीनो गर्भशय्यायां कुमार ऋचमाह सः
ततो निशम्य भगवान् वसिष्ठ ऋचमादरात् केनोक्तमिति संचिन्त्य तदातिष्ठत्समाहितः
व्योमाङ्गणस्थो ऽथ हरिः पुण्डरीकनिभेक्षणः वसिष्ठमाह विश्वात्मा घृणया स घृणानिधिः