नव प्रकृतयो देवाः पुलस्त्यस्य वदामि वः चतुर्युगे ह्यतिक्रान्ते मनोरेकादशे प्रभोः
अर्धावशिष्टे तस्मिंस्तु द्वापरे सम्प्रवर्तिते मानवस्य नरिष्यन्तः पुत्र आसीद् दमः किल
दमस्य तस्य दायादस् तृणबिन्दुरिति स्मृतः त्रेतायुगमुखे राजा तृतीये संबभूव ह
तस्य कन्या त्विलविला रूपेणाप्रतिमाभवत् पुलस्त्याय स राजर्षिस् तां कन्यां प्रत्यपादयत्
ऋषिर् ऐरविलो यस्यां विश्रवाः समपद्यत तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्धनाः
बृहस्पतेः शुभा कन्या नाम्ना वै देववर्णिनी पुष्पोत्कटा बलाका च सुते माल्यवतः स्मृतेः
कैकसी मालिनः कन्या तासां वै शृणुत प्रजाः ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी
कैकसी चाप्यजनयद् रावणं राक्षसाधिपम् कुम्भकर्णं शूर्पणखां धीमन्तं च विभीषणम्
पुष्पोत्कटा ह्यजनयत् पुत्रांस्तस्माद्द्विजोत्तमाः महोदरं प्रहस्तं च महापार्श्वं खरं तथा
कुम्भीनसीं तथा कन्यां बलायाः शृणुत प्रजाः त्रिशिरा दूषणश्चैव विद्युज्जिह्वश् च राक्षसः
कन्या वै मालिका चापि बलायाः प्रसवः स्मृतः इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा नव
विभीषणो ऽतिशुद्धात्मा धर्मज्ञः परिकीर्तितः पुलस्त्यस्य मृगाः पुत्राः सर्वे व्याघ्राश् च दंष्ट्रिणः
भूताः पिशाचाः सर्पाश् च सूकरा हस्तिनस् तथा वानराः किंनराश्चैव ये च किंपुरुषास् तथा
अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वते ऽन्तरे अत्रेः पत्न्यो दशैवासन् सुंदर्यश् च पतिव्रताः
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः भद्राभद्रा च जलदा मन्दा नन्दा तथैव च
बलाबला च विप्रेन्द्रा या च गोपाबला स्मृता तथा तामरसा चैव वरक्रीडा च वै दश
आत्रेयवंशप्रभवास् तासां भर्ता प्रभाकरः स्वर्भानुपिहिते सूर्ये पतिते ऽस्मिन्दिवो महीम्
तमो ऽभिभूते लोके ऽस्मिन् प्रभा येन प्रवर्तिता स्वस्त्यस्तु हि तवेत्युक्ते पतन्निह दिवाकरः
ब्रह्मर्षेर्वचनात्तस्य पपात न विभुर्दिवः ततः प्रभाकरेत्युक्तः प्रभुरत्रिर्महर्षिभिः
भद्रायां जनयामास सोमं पुत्रं यशस्विनम् स तासु जनयामास पुनः पुत्रांस्तपोधनः
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ च महौजसौ
दत्तो ह्यत्रिवरो ज्येष्ठो दुर्वासास्तस्य चानुजः यवीयसी स्वसा तेषाम् अमला ब्रह्मवादिनी
तस्य गोत्रद्वये जाताश् चत्वारः प्रथिता भुवि श्यावश् च प्रत्वसश्चैव ववल्गुश्चाथ गह्वरः
आत्रेयाणां च चत्वारः स्मृताः पक्षा महात्मनाम् काश्यपो नारदश्चैव पर्वतानुद्धतस् तथा
जज्ञिरे मानसा ह्येते अरुन्धत्या निबोधत नारदस्तु वसिष्ठाया-रुन्धतीं प्रत्यपादयत्
ऊर्ध्वरेता महातेजा दक्षशापात्तु नारदः पुरा देवासुरे युद्धे घोरे वै तारकामये
अनावृष्ट्या हते लोके ह्य् उग्रे लोकेश्वरैः सह वसिष्ठस्तपसा धीमान् धारयामास वै प्रजाः
अन्नोदकं मूलफलम् ओषधीश् च प्रवर्तयन् तानेताञ्जीवयामास कारुण्यादौषधेन च
अरुन्धत्यां वसिष्ठस्तु सुतान् उत्पादयच्छतम् ज्यायसो ऽजनयच्छक्तेर् अदृश्यन्ती पराशरम्
रक्षसा भक्षिते शक्तौ रुधिरेण तु वै तदा काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम्