वैवस्वतान्तरे ते वै आदित्या द्वादश स्मृताः इन्द्रो धाता भगस्त्वष्ट मित्रो ऽथ वरुणो ऽर्यमा
विवस्वान्सविता पूषा अंशुमान् विष्णुरेव च एते सहस्रकिरणा आदित्या द्वादश स्मृताः
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम् हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च
दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम् विप्रचित्तिः प्रधानो ऽभूत् तेषां मध्ये द्विजोत्तमाः
ताम्रा च जनयामास षट् कन्या द्विजपुङ्गवाः शुकीं श्येनीं च भासीं च सुग्रीवीं गृध्रिकां शुचिम्
शुकी शुकानुलूकांश् च जनयामास धर्मतः श्येनी श्येनांस् तथा भासी कुरङ्गांश् च व्यजीजनत्
गृध्री गृध्रान् कपोतांश् च पारावती विहंगमान् हंससारसकारण्डप्लवाञ्छुचिरजीजनत्
अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत् विनता जनयामास गरुडं चारुणं शुभा
सौदामिनीं तथा कन्यां सर्वलोकभयङ्करीम् सुरसायाः सहस्रं तु सर्पाणामभवत्पुरा
कद्रूः सहस्रशिरसां सहस्रं प्राप सुव्रता प्रधानास्तेषु विख्याताः षड्विंशतिरनुत्तमाः
शेषवासुकिकर्कोटशङ्खैरावतकम्बलाः धनञ्जयमहानीलपद्माश्वतरतक्षकाः
एलापत्रमहापद्मधृतराष्ट्रबलाहकाः शङ्खपालमहाशङ्खपुष्पदंष्ट्रशुभाननाः
शङ्खलोमा च नहुषो वामनः फणितस् तथा कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृतः
रक्षोगणं क्रोधवशा महामायं व्यजीजनत् रुद्राणां च गणं तद्वद् गोमहिष्यौ वराङ्गना
सुरभिर् जनयामास कश्यपादिति नः श्रुतम् मुनिर्मुनीनां च गणं गणमप्सरसां तथा
तथा किंनरगन्धर्वान् अरिष्टाजनयद्बहून् तृणवृक्षलतागुल्मम् इला सर्वमजीजनत्
त्विषा तु यक्षरक्षांसि जनयामास कोटिशः एते तु काश्यपेयाश् च संक्षेपात्परिकीर्तिताः
एतेषां पुत्रपौत्रादिवंशाश् च बहवः स्मृताः एवं प्रजासु सृष्टासु कश्यपेन महात्मना
प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च अभिषिच्याधिपत्येषु तेषां मुख्यान्प्रजापतिः
ततो मनुष्याधिपतिं चक्रे वैवस्वतं मनुम् स्वायंभुवे ऽन्तरे पूर्वं ब्रह्मणा ये ऽभिषेचिताः
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता यथोपदेशमद्यापि धर्मेण प्रतिपाल्यते
स्वायंभुवे ऽन्तरे पूर्वे ब्रह्मणा ये ऽभिषेचिताः ते ह्येते चाभिषिच्यन्ते मनवश् च भवन्ति ते
मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः एवमन्ये ऽभिषिच्यन्ते प्राप्ते मन्वन्तरे ततः
अतीतानागताः सर्वे नृपा मन्वन्तरे स्मृताः एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात्
कश्यपो गोत्रकामस्तु चचार स पुनस्तपः पुत्रो गोत्रकरो मह्यं भवताद् इति चिन्तयन्
तस्यैवं ध्यायमानस्य कश्यपस्य महात्मनः ब्रह्मयोगात्सुतौ पश्चात् प्रादुर्भूतौ महौजसौ
वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ वत्सरान्नैध्रुवो जज्ञे रैभ्यश् च सुमहायशाः
रैभ्यस्य रैभ्या विज्ञेया नैध्रुवस्य वदामि वः च्यवनस्य तु कन्यायां सुमेधाः समपद्यत
नैध्रुवस्य तु सा पत्नी माता वै कुण्डपायिनाम् असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत
शाण्डिल्यानां वरः श्रीमान् देवलः सुमहातपाः शाण्डिल्या नैध्रुवा रैभ्यास् त्रयः पक्षास्तु काश्यपाः