तपसाराध्य देवेशं पुरा लब्धं हि शङ्करात् वासुदेवेति यो नित्यं प्रणवेन समन्वितम्
नमस्कारसमायुक्तं भगवच्छब्दसंयुतम् जपेदेवं हि यो विद्वान् ध्रुवं स्थानं प्रपद्यते
ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः मात्रा सह ध्रुवं सर्वे तस्मिन् स्थाने न्यवेशयन्
विष्णोराज्ञां पुरस्कृत्य ज्योतिषां स्थानमाप्तवान् एवं ध्रुवो महातेजा द्वादशाक्षरविद्यया
अवाप महतीं सिद्धिम् एतत्ते कथितं मया
तस्माद्यो वासुदेवाय प्रणामं कुरुते नरः स याति ध्रुवसालोक्यं ध्रुवत्वं तस्य तत्तथा
देवानां दानवानां च गन्धर्वोरगरक्षसाम् उत्पत्तिं ब्रूहि सूताद्य यथाक्रममनुत्तमम्
संकल्पाद्दर्शनात्स्पर्शात् पूर्वेषां सृष्टिरुच्यते दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसंभवा
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् न वृद्धिमगमल्लोकस् तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि पञ्च सूत्यामजीजनत् तांस्तु दृष्ट्वा महाभागान् सिसृक्षुर्विविधाः प्रजाः
नारदः प्राह हर्यश्वान् दक्षपुत्रान् समागतान् भुवः प्रमाणं सर्वं तु ज्ञात्वोर्ध्वमध एव च
ततः सृष्टिं विशेषेण कुरुध्वं मुनिसत्तमाः ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्
अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः हर्यश्वेषु च नष्टेषु पुनर्दक्षः प्रजापतिः
सूत्यामेव च पुत्राणां सहस्रमसृजत्प्रभुः शबला नाम ते विप्राः समेताः सृष्टिहेतवः
नारदो ऽनुगतान्प्राह पुनस्तान्सूर्यवर्चसः भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄन् पुनः पुनः
आगत्य वाथ सृष्टिं वै करिष्यथ विशेषतः ते ऽपि तेनैव मार्गेण जग्मुर्भ्रातृगतिं तथा
ततस्तेष्वपि नष्टेषु षष्टिकन्याः प्रजापतिः वैरिण्यां जनयामास दक्षः प्राचेतसस्तदा
प्रादात्स दशकं धर्मे कश्यपाय त्रयोदश विंशत्सप्त च सोमाय चतस्रो ऽरिष्टनेमये
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते द्वे चैवाङ्गिरसे तद्वत् तासां नामानि विस्तरात्
शृणुध्वं देवमातॄणां प्रजाविस्तारमादितः मरुत्वती वसूर् यामिर् लम्बा भानुररुन्धती
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी धर्मपत्न्यः समाख्यातास् तासां पुत्रान्वदामि वः
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत् मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस् तथा
भानोस्तु भानवः प्रोक्ता मुहूर्ताया मुहूर्तकाः लम्बाया घोषनामानो नागवीथिस्तु यामिजः
संकल्पायास्तु संकल्पो वसुसर्गं वदामि वः ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम्
वसवस्ते समाख्याताः सर्वभूतहितैषिणः आपो ध्रुवश् च सोमश् च धरश्चैवानिलो ऽनलः
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः अजैकपाद् अहिर्बुध्न्यो विरूपाक्षः सभैरवः
हरश् च बहुरूपश् च त्र्यंबकश् च सुरेश्वरः सावित्रश् च जयन्तश् च पिनाकी चापराजितः
एते रुद्राः समाख्याता एकादश गणेश्वराः कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकम्
अदितिश् च दितिश्चैव अरिष्टा सुरसा मुनिः सुरभिर् विनता ताम्रा तद्वत् क्रोधवशा इला
कद्रूस्त्विषा दनुस्तद्वत् तासां पुत्रान्वदामि वः तुषिता नाम ये देवाश् चाक्षुषस्यान्तरे मनोः