एवमादीनि वाक्यानि भाषमाणां महातपाः अनिरीक्ष्यैव हृष्टात्मा हरेर्नाम जजाप सः
ततः प्रशेमुः सर्वत्र विघ्नरूपाणि तत्र वै ततो गरुडमारुह्य कालमेघसमद्युतिः
सर्वदेवैः परिवृतः स्तूयमानो महर्षिभिः आययौ भगवान्विष्णुः ध्रुवान्तिकम् अरातिहा
समागतं विलोक्याथ को ऽसावित्येव चिन्तयन् पिबन्निव हृषीकेशं नयनाभ्यां जगत्पतिम्
जपन् स वासुदेवेति ध्रुवस्तस्थौ महाद्युतिः शङ्खप्रान्तेन गोविन्दः पस्पर्शास्यं हि तस्य वै
ततः स परमं ज्ञानम् अवाप्य पुरुषोत्तमम् तुष्टाव प्राञ्जलिर्भूत्वा सर्वलोकेश्वरं हरिम्
प्रसीद देवदेवेश शङ्खचक्रगदाधर लोकात्मन् वेदगुह्यात्मन् त्वां प्रपन्नो ऽस्मि केशव
न विदुस्त्वां महात्मानं सनकाद्या महर्षयः तत्कथं त्वामहं विद्यां नमस्ते भुवनेश्वर
तमाह प्रहसन्विष्णुर् एहि वत्स ध्रुवो भवान् स्थानं ध्रुवं समासाद्य ज्योतिषाम् अग्रभुग् भव
मात्रा त्वं सहितस्तत्र ज्योतिषां स्थानमाप्नुहि मत्स्थानमेतत्परमं ध्रुवं नित्यं सुशोभनम्
तपसाराध्य देवेशं पुरा लब्धं हि शङ्करात् वासुदेवेति यो नित्यं प्रणवेन समन्वितम्
नमस्कारसमायुक्तं भगवच्छब्दसंयुतम् जपेदेवं हि यो विद्वान् ध्रुवं स्थानं प्रपद्यते
ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः मात्रा सह ध्रुवं सर्वे तस्मिन् स्थाने न्यवेशयन्
विष्णोराज्ञां पुरस्कृत्य ज्योतिषां स्थानमाप्तवान् एवं ध्रुवो महातेजा द्वादशाक्षरविद्यया
अवाप महतीं सिद्धिम् एतत्ते कथितं मया
तस्माद्यो वासुदेवाय प्रणामं कुरुते नरः स याति ध्रुवसालोक्यं ध्रुवत्वं तस्य तत्तथा
देवानां दानवानां च गन्धर्वोरगरक्षसाम् उत्पत्तिं ब्रूहि सूताद्य यथाक्रममनुत्तमम्
संकल्पाद्दर्शनात्स्पर्शात् पूर्वेषां सृष्टिरुच्यते दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसंभवा
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् न वृद्धिमगमल्लोकस् तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि पञ्च सूत्यामजीजनत् तांस्तु दृष्ट्वा महाभागान् सिसृक्षुर्विविधाः प्रजाः
नारदः प्राह हर्यश्वान् दक्षपुत्रान् समागतान् भुवः प्रमाणं सर्वं तु ज्ञात्वोर्ध्वमध एव च
ततः सृष्टिं विशेषेण कुरुध्वं मुनिसत्तमाः ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्
अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः हर्यश्वेषु च नष्टेषु पुनर्दक्षः प्रजापतिः
सूत्यामेव च पुत्राणां सहस्रमसृजत्प्रभुः शबला नाम ते विप्राः समेताः सृष्टिहेतवः
नारदो ऽनुगतान्प्राह पुनस्तान्सूर्यवर्चसः भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄन् पुनः पुनः
आगत्य वाथ सृष्टिं वै करिष्यथ विशेषतः ते ऽपि तेनैव मार्गेण जग्मुर्भ्रातृगतिं तथा
ततस्तेष्वपि नष्टेषु षष्टिकन्याः प्रजापतिः वैरिण्यां जनयामास दक्षः प्राचेतसस्तदा
प्रादात्स दशकं धर्मे कश्यपाय त्रयोदश विंशत्सप्त च सोमाय चतस्रो ऽरिष्टनेमये
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते द्वे चैवाङ्गिरसे तद्वत् तासां नामानि विस्तरात्
शृणुध्वं देवमातॄणां प्रजाविस्तारमादितः मरुत्वती वसूर् यामिर् लम्बा भानुररुन्धती